International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): राहुलकुमारः, प्रो. परमानन्दभारद्वाजः
घाघः भड्डरी च भारतीयलोकपरम्परायां सुप्रसिद्धौ कृषक–कवी, ज्योतिषज्ञानसम्पन्नश्च मन्येते। अनयोः नाम्ना प्रचलितानि घाघवाक्यानि भड्डरीवाक्यानि च न केवलं कृषिसम्बद्धानि, अपि तु कालज्ञानं, नक्षत्रग्रहविचारः, ऋतुचिन्तनं, तथा विविधेषु शकुनेषु आधारितं व्यवहारज्ञानं च प्रकाशयन्ति। एतेषु वाक्येषु शकुनचिन्तनं विशेषं स्थानं बिभर्ति। शकुनं नाम प्रकृतौ दृश्यमानानां घटनानां, पक्षिणां, पशूनां, निसर्गलक्षणानां वा तादृशः संकेतः, येन भाविकार्यस्य शुभाशुभनिर्णयः क्रियते। भारतीयपरम्परायां शकुनचिन्तनं दीर्घकालीनानुभवजन्यं ज्ञानरूपं स्वीक्रियते। घाघभड्डर्य्याम् एषः अनुभवः लोकजीवनस्य प्रत्यक्षावलोकनाद् उद्भूतः। घाघभड्डर्य्याः शकुनचिन्तनं विशेषतः कृषिकर्मणि प्रवृत्तम्। वर्षा, अनावृष्टिः, सुभिक्षं, दुर्भिक्षं, बीजारोपणकालः, कृषिपरिणामः एते सर्वे विषयाः शकुनैः सूचिताः भवन्ति। उदाहरणतया— पक्षिणां कूजनं, उड्डयनदिशा, निवासस्थानं च वर्षायाः संकेतं ददाति। पशूनां व्यवहारः— गवां शृङ्गप्रहारः, अश्वानां चेष्टा वातवर्षादीनां पूर्वसूचना मन्यते। मेघानां वर्णः, आकारः, गतिः च निकटभविष्यत्कालस्य जलवृष्टेः प्रमाणं स्वीक्रियते। एतेषु सर्वेषु घाघभड्डर्य्यां दृष्टिकोणः व्यावहारिकः अस्ति—“ अत्र यत् दीर्घकाले दृष्टं, तत् नियमत्वेन स्वीक्रियते”।
घाघभड्डर्य्याः शकुनचिन्तनं ग्राम्यसमाजे निर्णयप्रक्रियायाः आधारः आसीत्। कृषकः बीजारोपणं कुर्वन्, व्यापारी यात्राम् आरभमाणः, गृहस्थो विवाहादिकं चिन्तयन्— सर्वे शकुनसंकेतैः प्रेरिताः आसन्। अतः शकुनचिन्तनं केवलं ज्योतिषीयं न, अपि तु सामाजिकव्यवहारस्य नियामकं तत्त्वम् अस्ति। यद्यपि आधुनिकदृष्ट्या कानिचन शकुनानि अवैज्ञानिकानि दृश्यन्ते, तथापि घाघभड्डर्य्यां शकुनचिन्तनम् अनुभवजन्यं, सांख्यिकीयं (लोकानुभवाधारितं) मन्यते। दीर्घकालनिरीक्षणात् यदा कश्चन संकेतः पुनःपुनः फलदायकः दृश्यते, तदा सः लोकनियमत्वेन प्रतिष्ठितः भवति।घाघभड्डर्य्यां शकुनचिन्तनं भारतीयलोकबुद्धेः सजीवोदाहरणम् अस्ति। अत्र शकुनं न केवलं दैवसंकेतः, अपि तु प्रकृत्या सह मानवस्य संवादः। अनुभवः, निरीक्षणं, तथा व्यवहारज्ञानम्—एतेषां समन्वयेन घाघभड्डर्य्याः शकुनचिन्तनं लोकजीवनस्य मार्गदर्शकरूपं धारयति। आधुनिकयुगेऽपि अस्य अध्ययनं सांस्कृतिकदृष्ट्या, लोकज्ञानदृष्ट्या, तथा इतिहासदृष्ट्या अत्यन्तम् उपयोगी इत्यत्र नास्ति संशीतिसन्ततिः।