International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): निताइबिश्वासः
वैष्णवागमेषु (विशेषतः पाञ्चरात्र-वैखानसागमेषु) चतुर्षु पादेषु 'ज्ञानपादः' एव दर्शनस्य, जीवन्मुक्तेः, मोक्षस्य च तात्त्विकं स्वरूपं प्रस्तौति। अत्र मोक्षः केवलं संन्यासात्मिकः नास्ति, अपितु भगवत्प्रपत्त्या (शरणागत्या) सह सायुज्यादिसम्बन्धमयः भवति। संसारः भगवतः तिरोधानशक्त्या (मायया) भवति, मोक्षश्च तस्य अनुग्रहशक्त्या (प्रसादेन) जायते। सर्वक्लेशकर्मबन्धनानां निवृत्तिः एव मोक्षः, यत्र जीवः स्वकीय-सच्चिदानन्दस्वरूपे अवतिष्ठते। लक्ष्मीनारायणयोः अभेदमूलकं ज्ञानं मोक्षप्रदं भवति तथा च शरणागतिः एव सर्वमोक्षप्रदायिनी अस्ति। ब्रह्मणि जीवस्य लयः तोये (जले) क्षिप्तं तोयं यथा तन्मयं भवति, तथा सायुज्यमुक्तिरूपेण वर्णितः अस्ति। अत्र जीवन्मुक्तेः सिद्धान्तः स्वीकृतः अस्ति, यस्यानुसारं यस्य चित्तं श्रीहरौ लीनं जातं, सः संसारे तिष्ठन् अपि जीवन्नेव विमुक्तः अस्ति। भृगुसंहितायाम् मोक्षस्य क्रमिकविकासाय चत्वारः भेदाः वर्णिताः सन्ति - सालोक्यं (विष्णुलोके निवासः), सामीप्यं (भगवतः निकटता), सारूप्यं (भगवद्रूपप्राप्तिः), सायुज्यं च (परब्रह्मणि पूर्णप्रवेशः)। स्कान्दे वायसकथा (काककथा)माध्यमनेन स्पष्टीकृतं यत् एकः सामान्यः पक्षी अपि क्षेत्रप्रभावेण चतुर्भुजधारी भूत्वा विष्णुसादृश्यं (सारूप्यं) प्राप्नोति। पुरुषोत्तमक्षेत्रे प्रविष्टः जीवः सांद्रसुखस्वरूपं प्राप्य पुनः गर्भवासं न लभते। ज्ञान-श्रवणादिकं विनापि केवलं क्षेत्रे प्राणत्यागेन तत्क्षण एव मुक्तिः भवति। पुण्डरीकस्य स्तुतौ अष्टाङ्गयोगात् अपि भक्तिः श्रेष्ठा उक्ता, यया घोरसंसारसागरः सुलभतया तीर्यते। पुण्डरीकाक्षस्य दिव्यदर्शनेन कल्पकोटिजन्यपापानां नाशः भवति तथा च विष्णुभक्तेः प्रसादात् राजा इन्द्रद्युम्नः मर्त्यशरीरेणापि जीवन्मुक्तः सन् ब्रह्मलोकं गतः।