International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डॉ आयुष दीक्षित
अस्मिन् शोधपत्रे अलङ्कारशास्त्रपरम्परायां स्वीकृतस्य प्रमुखकाव्यहेतोः 'प्रतिभा' इत्यस्य स्वरूपं प्राधान्यं च विस्तरेण विवेचितम् अस्ति। काव्यं तावत् कार्यम् अस्ति, कारणं विना च कार्यस्य उत्पत्तिः असम्भवा। अलङ्कारशास्त्रिणः काव्यनिर्माणाय प्रतिभा-व्युत्पत्ति-अभ्यासान् कारणत्वेन स्वीकुर्वन्ति, परन्तु तेषु प्रतिभा एव सर्वप्रधाना अनिवाया च अस्ति। आचार्यभामह-दण्डि-वामनादिभिः प्राचीनैः तथा च आनन्दवर्धन-मम्मट-राजशेखर-पण्डितराजजगन्नाथादिभिः आचार्यैः प्रतिभायाः स्वरूपं, तस्याः भेदप्रभेदाः, कवित्वे तस्याः अनिवार्यता च सुप्रतिपादिता। इयं प्रतिभा अपूर्ववस्तुनिर्माणक्षमा, नवनवोन्मेषशालिनी प्रज्ञा तथा च जन्मान्तरीयसंस्काररूपा भवतीति शोधपत्रेऽस्मिन् विभिन्न-शास्त्रीयप्रमाणानां साहाय्येन सिद्धं कृतं वर्तते। वस्तुतः व्युत्पत्त्यभ्यासयोः सत्त्वेऽपि प्रतिभामन्तरा न कोऽपि सत्काव्यं रचयितुं शक्नोति, अतः सैव मुख्यः काव्यहेतुः इति निष्कर्षः।