International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): शुभमकुमारपाण्डेयः
अस्मिन् शोधपत्रे वेदार्थावबोधने स्वामीकरपात्रीवर्याणाम् अभिनवचिन्तनस्य समीक्षात्मकं अध्ययनं कृतम् अस्ति। भारतीयपरम्परायां वेदाः सृष्टिक्रमस्य आद्यवाङ्मयरूपेण तथा धर्मसंस्कृतेः मूलाधाररूपेण स्वीकृताः सन्ति। वेदार्थव्याख्यायां प्राचीनभाष्यपरम्परायाः—विशेषतः यास्क, सायणादीनां—योगदानं संक्षेपेण निरूप्य, तेषां परम्परायाः अधिष्ठानेन स्वामीकरपात्रीवर्येण प्रदत्तस्य अभिनवदृष्टिकोणस्य विशदं विवेचनं कृतम्।
स्वामीकरपात्रीवर्यः वेदमन्त्राणां बहुविधार्थसम्भावनां स्वीकृत्य, तेषां यज्ञार्थं तथा अध्यात्मार्थं समन्वयेन व्याख्यायति। तस्य भाष्यपद्धतौ श्रौतसूत्राणां, ब्राह्मणग्रन्थानां, निघण्टु-निरुक्तादीनां च समुचितः उपयोगः दृश्यते। अनेन तेन वेदार्थस्य गूढत्वं प्रकाश्य, परम्परानुगुणं नूतनचिन्तनं प्रतिपादितम्।
अतः अस्य अध्ययनस्य निष्कर्षः यत् स्वामीकरपात्रीवर्यस्य वेदार्थचिन्तनं परम्परानुगुणं सत्त्वेऽपि अभिनवदृष्ट्या समन्वितं भवति, यत् आधुनिकवेदाध्ययने महत्त्वपूर्णं योगदानं ददाति।