International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): सङ्गीता मण्डलः
राष्ट्रैक्यस्य राष्ट्राखण्डतायाश्च संरक्षणं सम्बर्धनं च प्राचीनभारतीयसंस्कृतेः सनातनः सार्वकालिकश्च सन्देशः वर्तते। राष्ट्रियैकता मुख्यतः एका भावात्मिकशक्तिः वर्तते। वस्तुत: इयम् एकता एका सामुदायिकी भावना भवति। या च भावना देशस्य नागरिकाणां मनसि विकसिता भवति। वैदिकवाङ्मये राष्ट्रैक्यस्य राष्ट्राखण्डतायाश्च स्थापनायै अनेके महत्त्वपूर्णाः सिद्धान्ताः उपदिष्टाः सन्ति। भारतीयैः पाश्चात्यैश्च विद्वद्भिः तस्य प्रामाण्यं, प्राचीनता, सार्वभौमिकमहत्त्वं च समभावेन स्वीकृतानि सन्ति। वेदस्य प्रत्येकस्मिन् स्थाने राष्ट्रियभावना दरीदृश्यते। वस्तुत राष्ट्रियैकता एव राष्ट्रस्य आत्मा भवति। यथा - ऋग्वेदे धर्मस्य विस्तृतं निरूपणं कृत्वा परस्परप्रेम राष्ट्रियैक्यस्य मूलाधारत्वेन प्रतिपादितम्।