International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): हरेकृष्णताण्डि
पण्डितगोपबन्धुदासः एकः महान् कविः, शिक्षावित्, समाजसंस्कर्ता च आसीत्। सः जनेषु 'उत्कलमणिः' अर्थात् ओड़िशायाः रत्नम् इति नाम्ना अपि प्रसिद्धः आसीत्। तस्य विश्वासः आसीत् यत् भारतीयराष्ट्रस्य मुक्तिः राजनैतिकस्वतन्त्रतायाम् शैक्षिकजागरणानयने एव निहिता अस्ति। अतः यद्यपि सः भारतस्य स्वतन्त्रता आन्दोलने सक्रियत्वेन भागं गृहीतवान्, तथापि सः एकाम् स्वदेशीयाम् शिक्षापद्धतिं संस्थापयितुं प्रयतितवान्, या 'सत्यवादीपद्धतिः' इति कथ्यते।
गोपबन्धुदासस्य जन्म १८७७ तमस्य वर्षस्य अक्टूबरमासस्य ९ दिनाङ्के ओड़िशायाः पुरी-मण्डलस्य 'सुआन्डो' इति नामके लघुग्रामे अभवत्। तस्य पितुः नाम दैतारी दासः, मातुश्च नाम स्वर्णमयी देवी आसीत्। गोपबन्धुः १८९९ तमे वर्षे पुरीजिल्लाविद्यालयात् (Puri Zilla School) प्रवेशिकापरीक्षां (Matriculation) उत्तीर्णवान्। ततः परं कलाशिक्षाध्ययनाय रेवेन्शॉ-महाविद्यालयं (Ravenshaw College) प्रविष्टवान्। सः स्नातकोपाधिं सम्प्राप्य१९०६ तमे वर्षे विधिशास्त्रस्य (Law) उपाधिं लब्धवान्, एवं प्रकारेण तस्य औपचारिकशिक्षा पूर्णा अभवत्।
उच्चविद्यालये अध्ययनकाले सः मुख्तियारः रामचन्द्रदासनामकस्य एकस्य शिक्षकस्य प्रभावे आगतवान्। यः विपद्ग्रस्तां जनानां सहायतार्थं तत्परः राष्ट्रवादी आसीत्। विसूचिका (Cholera) रोगस्य प्रकोपेन ग्रस्तानां पीडितानां साहाय्यार्थं सहपाठिबालकानां सहकारभावेन सङ्घटनं कृत्वा सः 'पुरी सेवा समिति' नामिकाम् एकां स्वयंसेविसंस्थां प्रारभत। अस्याः संस्थायाः सदस्याः रोगग्रस्तानां सेवां कुर्वन्ति स्म तथा मृतानां दाहसंस्कारम् अपि कुर्वन्ति स्म। १९०९ तमे वर्षे गोपबन्धुः स्वकीयान् शैक्षिकविचारान् व्यवहारे परिणमयितुं पुरीमण्डलस्य साखीगोपालस्थाने 'सत्यवादीवनविद्यालयः' इत्यस्य स्थापनां कृतवान्। तत्र सः 'डेक्कन एजुकेशन सोसाइटी' (Deccan Education Society) इत्यनया प्रभावितः अभवत्। या गुरुकुलपरम्परायाम् आधारिता आसीत् तथा उदारशिक्षायाः प्रदानाय लक्षिता आसीत्। तस्य विश्वासः आसीत् यत् जनानां स्वाभाविकीं स्वतन्त्रतां देशं प्रति च कर्तव्यं बोधयितुं शिक्षा अनिवार्या आसीत्। सः अमन्यत यत् शिक्षा बालकानां मानसिक-शारीरिक-आध्यात्मिक-विकासे साहाय्यं कर्तुं शक्नोति।