International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): अदिति सामन्तः, डॉ. प्रेमसिंहसिकरवारः
चिलकिगडराजगृहे शिवस्य गाजनोत्सवे द्वादशदिनानि यावत् उत्सवः भवति स्म। राजा ईश्वरचन्द्रः धवलदेवः झाड़ग्रामस्य काठियामुखडानृत्यस्य अनुकरणे एकस्य अभिनवस्य मुखडानृत्यस्य परिकल्पनां कृतवान्। स काठियामुखडानृत्येन सह पौराणिकवातावरणं निर्माय द्वादशदिवसेषु द्वादशदेवतानां मत्यं प्रति आगमनकल्पनां कृत्वा प्रत्येकस्यै देवतायै प्रतिदिनं पृथक् नृत्यस्य परिकल्पनां कृतवान्। सः द्वादश देवदेवीषु प्रत्येकस्य कृते मस्तकतः कटिदेशपर्यन्तं काष्ठनिर्मितं मुखाच्छादकं (मुखोश) निर्मितवान्। राजगृहे गाजनोत्सवस्य द्वादेशदिनानि यावत् प्रत्येकस्यां रात्रौ एकैकस्य देवस्य मुखोशनृत्यकरणाय द्वादशमुखोशानां मुखाच्छादकानां वा निर्माणं तैः कृतम्। कटिदेशपयन्तं विस्तृतस्य अस्य काष्ठनिर्मितस्य मुखोशस्य मुखाच्छादकस्य वा नाम आसीत् परभा इति। परभां धृत्वा कृतस्य नृत्यस्य नाम आसीत् परभानृत्यम्।
कालामिस्त्री दिवानक्तं परिश्रमं कृत्वा राज्ञः निर्देशानुसारं परभां निर्मितवान्। एकैकेन काष्ठखण्डेन (वृक्षखण्डेन) एकैकस्याः परभायाः निर्माणं भवति स्म। राज्ञा ईश्वरचन्द्रेण तेन तक्षकेण (कालामिस्त्री) आहत्य द्वादशपरभाः निर्मिताः। ताः द्वादश परभाः भवन्ति- गणेशः, कार्तिकः, शिवः, दशभूजा, अरूणः, वरुणः, अष्टभुजा, शिवदुर्गा, चतुर्भुजा, गौराङ्गः, पवनः, यमः चेति। राज्ञा चिलकिगडस्य निवासी दण्डछत्रमाझिः प्रजाः नीत्वा एकं नृत्यदलं निर्मितवान्।