International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): Dr. Gandikota Chennaiah
भारतीयसंस्कृतौ शिक्षा केवलं ज्ञानार्जनस्य साधनं नास्ति, अपितु सा मानवजीवनस्य सर्वाङ्गीणविकासस्य संस्कारनिर्माणस्य समाजकल्याणस्य च प्रमुखमाध्यमम् अस्ति। प्राचीन-भारतीयशिक्षापद्धतिः वैदिकपरम्परायाः आधारेण विकसिताभूत्। अस्याः पद्धतेः प्रमुखलक्ष्यं विद्यार्थिनः शारीरिकमानसिकबौद्धिकनैतिकाध्यात्मिकविकासः आसीत्। गुरुकुलव्यवस्थायां गुरुशिष्यसम्बन्धः शिक्षायाः केन्द्रबिन्दुरासीत्। अध्ययनस्य सह आत्मसंयमः विनयः सेवाभावः कर्तव्यपरायणता च विशेषरूपेण पोषिताः। शिक्षा जीवनस्य प्रत्येकविषयेण सह सम्बद्धा आसीत् तथा च व्यक्तेः चरित्रनिर्माणं राष्ट्रहितचिन्तनं सांस्कृतिकसंरक्षणं च तस्याः मूललक्ष्येषु परिगणितम्।
आधुनिकभारते शिक्षाक्षेत्रे परिवर्तनशीलपरिस्थितीनां वैश्वीकरणस्य विज्ञानप्रौद्योगिक्योः च प्रभावस्य परिप्रेक्ष्ये भारतसरकारेण राष्ट्रियशिक्षानीतिः २०२० प्रवर्तिता। एषा नीति: भारतीयज्ञानपरम्परां आधुनिकशैक्षिकदृष्ट्या सह समन्वययितुं प्रयतते। अस्यां नीतौ समग्रशिक्षा मातृभाषामाध्यमम् अनुसन्धानसंस्कृतिः कौशलविकासः मूल्यशिक्षा भारतीयज्ञानपरम्परायाः संरक्षणं च विशेषतया प्रतिपादितम्। एते सर्वे विषयाः प्राचीनभारतीयशिक्षासिद्धान्तानां स्मरणं कारयन्ति, यद्यपि तेषां प्रस्तुतीकरणम् आधुनिकसामाजिकावश्यकतानुसारं परिवर्तितम् अस्ति।
अस्मिन् शोधलेखे प्राचीनभारतीयशिक्षापद्धतेः राष्ट्रियशिक्षानीतेः २०२० च तुलनात्मकदृष्ट्या विस्तृतमध्ययनं कृतम्। उभयोः व्यवस्थयोः उद्देश्यानि शिक्षणपद्धतयः पाठ्यविषयाः गुरुशिष्यसम्बन्धः मूल्यशिक्षा मातृभाषाया महत्त्वम् अनुसन्धानप्रवृत्तिः कौशलविकासः भारतीयज्ञानपरम्पराया संरक्षणम् इत्यादयः विषयाः सम्यग् विश्लेषिताः। अध्ययनस्य निष्कर्षः अयं भवति यत् राष्ट्रियशिक्षानीतिः २०२० प्राचीनभारतीयशिक्षायाः अनेकान् मौलिकसिद्धान्तान् आधुनिकशिक्षाव्यवस्थायाम् अभिनवरूपेण पुनः प्रतिष्ठापयितुं प्रयतते। यदि एषा नीति: प्रभावकरूपेण कार्यान्विता भविष्यति तर्हि भारतीय-शिक्षाव्यवस्था ज्ञानविज्ञानसंस्कारसमन्वितरूपेण पुनरपि विश्वस्य आदर्शशिक्षाव्यवस्थारूपेण प्रतिष्ठां प्राप्नुयात्।