International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): प्रो. प्रभाकरप्रसादः
ननु परोक्षे सामान्यात्मनि विषये एवानुमानमिव तृतीयं शब्दप्रमाणमपि प्रवर्ततामिति चेत् । उच्यते एकत्र विषये विरोधविफलत्वाभ्यामनेक प्रमाणप्रवृत्त्यनुपपत्तेरनुमानविषयतया नियते परोक्षे शब्दप्रमाणस्य नावकाशः। एवं ह्याहुः- “अधिगतमर्थमधिगमयता प्रमाणेन पिष्टं पिष्टं स्यादिति, अन्यरूपतया तु तदग्रहणमुत्तरप्रमाणेन दुःशक्यमादिमप्रमाणविरुद्धत्वात्, इत्यत एव न सम्प्लवमभ्युपगच्छन्ति नीतिविदः” इति। एकस्मिन्विषयेऽनेकप्रमाणप्रवृत्तिः सम्प्लवः। स च प्रमाण्योः सम्प्लवः क्वापि न सङ्गच्छते। यतो हि अनधिगतार्थगन्तृप्रमाणमिति प्रमाणविदः प्रमाणलक्षणमाचक्षते। तदुक्तमाचार्यसुरेश्वरैः “सर्वतीर्थदृशां तावत् सामान्यं मानलक्षणम्।” अज्ञातार्थावगमनम् इति। तत्र पूर्व यदि प्रमाणेनैकेन ज्ञातं चेत् तत्र द्वितीयं प्रमाणमनुवादकमेव स्यात्, अन्यथा स्मृतिरपि प्रमाणं भवेत्। यदि चेन्द्रियेण समानविषयः शब्दो भवेत् तदान्धानन्धयोरविशेषप्रसङ्गः। तदाह