International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): डॉ. लोकेश
एकविंशतितमे शतके शिक्षायाः उद्देश्यं केवलं ज्ञानार्जनं वा रोजगारप्राप्तिः नास्ति, अपितु व्यक्तेः समग्रव्यक्तित्वविकासः, नैतिकचेतनायाः संवर्धनम्, सामाजिकोत्तरदायित्वस्य विकासः तथा आत्मबोधस्य प्राप्तिरपि तस्याः प्रमुखो लक्ष्यः अस्ति। अस्यैव दृष्ट्यै भारतसर्वकारेण प्रस्तुता राष्ट्रीयशिक्षानीतिः–२०२० भारतीयशिक्षाव्यवस्थायां महत्त्वपूर्णं वैचारिकपरिवर्तनं सूचयति। एषा नीति: शिक्षां केवलं सूचना-कौशलप्राप्तेः प्रक्रिया इति न मन्यते, अपि तु सा व्यक्तेः बौद्धिक, भावनात्मक, नैतिक, आध्यात्मिक- तथा सांस्कृतिकविकासस्य माध्यमम् इति स्वीकरोति। अस्य दृष्टिकोणस्य मूलम् भारतीयशिक्षादर्शने निहितम् अस्ति, यत्र शिक्षायाः परमलक्ष्यं "सा विद्या या विमुक्तये" इति उक्त्या आत्मबोधस्य मोक्षस्य च प्राप्तिः मन्यते। अस्य शोधलेखस्य उद्देश्यं राष्ट्रीयशिक्षानीतौ २०२० निहितानां भारतीयशिक्षादर्शनस्य मूलतत्त्वानां विश्लेषणं कर्तुं तथा आधुनिकवैश्विकशिक्षापरिप्रेक्ष्ये एषा नीति: भारतीयज्ञानपरम्परायाः पुनराविष्कारं कथं करोति इति स्पष्टयितुम् अस्ति। अस्मिन् अध्ययने गुणात्मकदस्तावेजविश्लेषणात्मकशोधपद्धतेः उपयोगः कृतः। विश्लेषणस्य आधारः राष्ट्रीयशिक्षानीतिः–२०२०,भारतीयदार्शनिकग्रन्थाः, समकालीनशोधसाहित्यं तथा शिक्षादर्शनसम्बद्धानां प्रमुखविचारकाणां सिद्धान्ताः सन्ति। अध्ययनेन स्पष्टं भवति यत् राष्ट्रीयशिक्षानीतिः–२०२० शिक्षां केवलं ज्ञानार्जनस्य प्रक्रिया इति न मन्यते, अपि तु आत्मबोधेन, चरित्रनिर्माणेन, नैतिकमूल्यैः, बहुविषयकचिन्तनेन, अनुभवाधारिताधिगमेन, सांस्कृतिकचेतनया तथा वैश्विकउत्तरदायित्वेन सह सम्बध्नाति। यद्यपि अस्याः प्रभावीक्रियान्वयने अनेकाः व्यवहारिकाः चुनौतीः सन्ति, तथापि एषा नीति: भारतीयशिक्षादर्शनस्य पुनः प्रतिष्ठापनाय महत्त्वपूर्णा वैचारिकी पहल इति सिद्ध्यति।