International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): बेबी मल्लिकः
भारतीयसाहित्यपरम्परायां काव्यं केवलं कान्तासम्मितोपदेशस्य वा केवलाह्लादस्य साधनं न वर्तते, अपितु तत् समाजस्य मार्गदर्शकम्, राष्ट्रियचेतनायाः संवाहकम्, सामाजिक-सांस्कृतिकमूल्यानां च संरक्षकं भवति। एतादृश्याम् उद्दात्तपरम्परायां महाकविना संकर्षणेन विरचितं छत्रपतिशिवकाव्यम् ऐतिहासिकमहाकाव्येषु मूर्धन्यस्थानं भजते। अस्मिन् महाकाव्ये भारतस्य महान् राष्ट्रियनायकः, धर्मसंस्थापकः, स्वराज्याधीशः छत्रपतिः शिवाजीमहाराजः नायकत्वेन वर्णितः अस्त। शिवकाव्यं न केवलं शिवनृपस्य शौर्यस्य, विजयस्य, युद्धकौशलस्य च वर्णनं करोति, अपितु तस्मिन् युगानुकूलं राष्ट्रियभावनायाः उद्बोधनम्, धर्म-संस्कृतेः संरक्षणम्, निसर्गसौन्दर्यस्य चित्रणम्, प्रजापालकस्य आदर्शसद्गुणानां च सुष्ठु वर्णनं लभ्यते।