International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): तन्मय सरकारः
भारतीयषड्दर्शनेषु आस्तिकदर्शनेषु च वेदान्तदर्शनं अन्यतमं शाखा अस्ति, यानि उपनिषद्-भगवद्गीता-ब्रह्मसूत्राणाम् (प्रस्थानत्रयी) आध्यात्मिकशिक्षायाः आधारेण विकसितमस्ति। वेदान्तशब्दस्य अर्थः वेदस्य 'अन्तः' अथवा अन्तिमभाग इति। अस्य दर्शनस्य मुख्यम् उद्देश्यं जीवात्म-जगत्-परमब्रह्मणाम् वास्तविकस्वरूपं तथा च तेषां पारस्परिकसम्बन्धं निरूपयितुमस्ति। वेदान्तदर्शनस्य मुख्यः आधारः वेदस्य ज्ञानकाण्डः अथवा उपनिषद् अस्ति। महर्षिः बादरायणः स्वकीये 'ब्रह्मसूत्र' ग्रन्थे उपनिषदाम् एतान् आपाततः विरोधिप्रतीयमानान् मन्त्रान् एकत्र सुसम्बद्धं च अकरोत्। अनन्तरं विभिन्नभाष्यकारैः अस्य ब्रह्मसूत्रस्य भिन्नाः व्याख्याः भाष्याणि च रचितानि, तत एव च भिन्नभिन्नमतानां (सम्प्रदायानां) जन्म अभवत्। उपनिषत्सु कुत्रचित् ब्रह्म निराकाररूपेण, पुनः कुत्रचित् साकाररूपेण वर्णितमस्ति। किन्तु महर्षिः बादरायणः स्वकीये ग्रन्थे दर्शितवान् यत् एतानि परस्परविरोधीनि न सन्ति, अपितु एकस्यैव परमार्थस्य भिन्नाः दृष्टिकोणाः सन्ति। जीवात्मा (जीवः) परमात्मा (ब्रह्म) च अनयोः पारस्परिकः सम्बन्धः कीदृशः इति अस्मिन् ग्रन्थे सूत्ररूपेण संयोजनं कृतं वर्तते। ब्रह्मसूत्रस्य' भाषा अतीव संक्षिप्ता सांकेतिका च अस्ति, अतः भाष्यकाराणां व्याख्यां विना अस्य वास्तविकार्थस्य अवगमनं सर्वथा असम्भवम् अस्ति। भारतस्य महान्तः दार्शनिकाः एतेषां सूत्राणाम् उपरि निबन्धान्, भाष्याणि, व्याख्याः च विलिख्य वेदान्तस्य भिन्नानां दार्शनिकसिद्धान्तानां प्रवर्तनं कृतवन्तः।वेदान्तदर्शनं मुख्यरूपेण त्रिषु 'आध्यात्मिकस्तम्भेषु' आधारितम् अस्ति, यानि सम्मिल्य 'प्रस्थानत्रयी' इति उच्यन्ते। वेदान्तदर्शनं मुख्यरूपेण त्रिषु 'आध्यात्मिकस्तम्भेषु' आधारितम् अस्ति, यानि सम्मिल्य 'प्रस्थानत्रयी' इति उच्यन्ते। तानि यथा —श्रुतिप्रस्थानम् –( उपनिषदः), न्यायप्रस्थानम् ( महर्षिबादरायणरचितं ब्रह्मसूत्रम्), च स्मृतिप्रस्थानम् - (श्रीमद्भगवद्गीता) ।