International Journal of Multidisciplinary Horizon
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
ISSN: 3049 – 2017
Impact Factor (RJIF): 7.8
Peer Reviewed Journal
Author’s Helpline: +91 – 8368 241 690
Email: [email protected] / [email protected]
Author(s): हरिश्चन्द्रः, प्रो. सनन्दनकुमारत्रिपाठी
भारतीयचिन्तनपरम्परायां राष्ट्रम् इति संकल्पना केवलं भौगोलिकसीमायुक्तं क्षेत्रं न, अपितु तत्र निवसतां जनानां सांस्कृतिक-ऐतिहासिक-राजनीतिक-आध्यात्मिकैक्यस्य समष्टिरूपम् अस्ति। कौटिल्यस्य अर्थशास्त्रे प्रतिपादितः सप्ताङ्गसिद्धान्तः राष्ट्रस्य संरचनायाः मूलाधारः अस्ति स्वामी, अमात्यः, जनपदः, दुर्गम्, कोशः, दण्डः, मित्रञ्च सन्ति। एतेषु जनपदः राष्ट्रस्य प्राणतत्त्वं मन्यते, यतः प्रजाः विना राष्ट्रस्य अस्तित्वं न संभवति। एकाग्रभारतमिति नाटके राष्ट्रस्वरूपं बहु-आयामिकदृष्ट्या निरूपितम् अस्ति। नाटककारः राष्ट्रं केवलं राजकीयसंस्था न मन्यते, अपितु सांस्कृतिकैक्यस्य, कर्तव्यबोधस्य, नैतिकमूल्यानां च समष्टिरूपेण प्रस्तुतवान्। नाटके विविधेषु श्लोकेषु राष्ट्रैकता, राष्ट्रधर्मः, राष्ट्ररक्षा, लोककल्याणभावना, नेतृत्वस्य सेवाभावः च स्पष्टतया प्रतिपादिताः सन्ति। यत्रैकाग्रतया राष्ट्रं क्रियते विश्वतोमुखम् इत्यस्मिन् श्लोके राष्ट्रस्य एकाग्रता एव तस्य उन्नतेः मूलकारणम् सूचितम् अस्ति। तथैव शस्त्रेण रक्षिते राष्ट्रे राष्ट्रधर्मः प्रवर्तते इति वचनेन राष्ट्रसुरक्षायाः अनिवार्यता प्रतिपादिता। पुनश्च एकं राष्ट्रस्य पर्यायः राष्ट्रमेकीकृतं पदमिति श्लोके राष्ट्रस्य मूलतत्त्वं एकता इति स्पष्टीकृतम्। राष्ट्रस्य स्वातन्त्र्यं, सामाजिकव्यवस्था, सांस्कृतिकपरम्परा च सुरक्षायाः आधारेण एव तिष्ठन्ति। अतः राष्ट्रधर्मः राष्ट्रसंरक्षणेन सह सम्बद्धः इति नाटककारस्य अभिप्रायः। एकाग्रभारतम् नाटकं प्राचीनभारतीय-राजनीतिकचिन्तनस्य आधुनिकराष्ट्रीयभावनया सह समन्वितं सशक्तं साहित्यिकप्रतिबिम्बं भवति। एतत् नाटकं राष्ट्रवादस्य समन्वयात्मकं विश्वबन्धुत्वप्रधानं च स्वरूपं प्रकाशयति । एकाग्रभारतमिति नाटके राष्ट्रस्य भौगोलिकं, सांस्कृतिकं, राजनीतिकं, आध्यात्मिकं नैतिकञ्च एते आयामाः सम्यग् प्रतिबिम्बिताः सन्ति। एतन्नाटकं प्राचीनभारतीयराष्ट्रदर्शनस्य आधुनिकराष्ट्रचेतनया सह समन्वितं सशक्तं साहित्यिकप्रतिनिधित्वमिति निष्कर्षतः वक्तुं शक्यते।