काव्ये दोषविषये विभिन्नालङ्कारिकाणामभिमतम्

Author(s): डाँ.बि.कामाक्षम्मा

Abstract:

दोषाः काव्यसौन्दर्यघातकाः भवन्ति। काव्ये दोषसमावेशेन काव्यकलेबरं कलुषितं भवति। अत एव निर्दोषता काव्यस्य महान् गुणः इति केचन अभिप्रयन्ति। काव्यस्य परमं प्रयोजनम् अनन्दानुभूतिः। आनन्दानुभूतिः रसनिष्ठा भवति। अतः काव्ये रसदोषाः एव मुख्यतया त्याज्याः। किन्तु रसास्वादः अर्थाश्रितः। अर्थः शब्दनिष्ठः। शब्दः पदरूपेण, वाक्यरूपेणापि भवति। यद्यपि रस एव मुख्यः तथापि परम्परासम्बन्धेन शब्दार्थयोः ग्रहणम्। अतः शब्दार्थदोषाः अपि हेयाः।

PDF URL: View Article in PDF