Author(s): डॉ. पारमिता पण्डा
Abstract:
भूमिका :- यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै। तं ह देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये ।।'1 वेदाः, वेदाङ्गानि, उपनिषदः इति सर्वे वैदिकग्रन्थाः वेदवाङ्मयरूपेण ग्राह्याः यद्यपि आधुनिकाः वेदस्य कालनिर्णयं कर्तुं कृतयत्नाः। ऋग्वेदः अस्मिन्काले रचितः, मण्डलमिदं प्राचीनं, दशममर्वाचः इत्यादि कल्पयन्ति। तथापि भारतीयविद्वांसाः वेदानाम् अनादित्वम् अपौरुषेयत्वं च अङ्गीकुर्वन्ति। वेदाश्च अनन्ताः अपि प्रतिद्वापरं नारायणावतारेण वेदव्यासेन चतुर्धा विभक्ताः भवन्ति। एवं विभक्तोऽपि वेदः भिन्नभाषामयत्वात् सुलभतया अवगन्तं न शक्यः। अपि च वेदबोधितः अर्थः सर्वोऽपि प्रभोः आज्ञा इव लिङ् लोट् कृत्यप्रत्ययैः निर्दिष्टो भवति। अतः वेदवाङ्गयं प्रभुसम्मितं गद्यते।
PDF URL: View Article in PDF
