भगवद्गीतायां ज्ञानविज्ञानसमन्वयः

Author(s): Dr. Gandikota Chennaiah

Abstract:

अस्मिन् शोधलेखे भगवद्गीतायां प्रतिपादितस्य ज्ञानविज्ञानसमन्वयस्य विस्तृतं विवेचनं क्रियते। भगवद्गीता भारतीयदर्शनस्य सारभूता ग्रन्थराजी अस्ति। अस्यां केवलं आध्यात्मिकविषयाः न प्रतिपादिताः, अपि तु ज्ञानस्य विज्ञानस्य कर्मणः भक्तेः योगस्य च अद्भुतः समन्वयः दृश्यते। ज्ञानं तत्त्वस्य यथार्थबोधं जनयति, विज्ञानं तस्य अनुभवं व्यवहारोपयोगित्वं च प्रकाशयति। एतयोः समन्वयेन मनुष्यस्य व्यक्तित्वविकासः समाजकल्याणं च साध्यते। आधुनिके वैज्ञानिकयुगे अपि भगवद्गीतायाः एषः दृष्टिकोणः अत्यन्तं प्रासङ्गिकः अस्ति। अस्मिन् लेखे ज्ञानस्य विज्ञानस्य च स्वरूपं, भगवद्गीतायां तयोः समन्वयः, आधुनिकजीवने तस्य उपादेयता च प्रमाणग्रन्थाधारितया विविच्यते।

PDF URL: View Article in PDF