Author(s): श्रीमान् नवकुमारपण्डा
Abstract:
शोधसार: मनुवंशोद्भवाः मानवाः भवन्तीति सर्वजनविदितम् । तथापि स एव मानवाख्यः भवति यस्तु मानवीयगुणानामधिकारी भवति । शास्त्रोक्तं सिद्धान्तानुसारं मानवे दया उत्तमगुणाः मैत्रीसद्भावनादयः परोपकारसेवादयाश्च परमस्वभाव यस्मिन् समवेताः दृश्यन्ते स एव मानवपदवाच्यः स्यात् । यदि ईर्षा-द्वेष-हिंसादयः परिलक्ष्यन्ते तर्हि सः मानवशरीरधारी दानवः इत्युच्यते । मानवीयगुणानां विकासेन, संरक्षेण, प्रसारणे, व्यवहारिकतायाः सम्पादने च यानि मूल्यानि प्रत्यक्षभूमिकां निर्वहन्ति तानि मानवीयमूल्यपदसंज्ञकानि भवन्तीति ज्ञातव्यम् । मानवं मानवत्वेन प्रतिष्ठापयितुं या शिक्षा अपेक्षिता सैव मूल्यभित्तिकशिक्षापदेनाभिधीयते । परन्तु सारांशरूपेण वक्तुं शक्यते यत् मानवीयगुणानां विकसनं अयुक्तप्रवृत्तिनां नियन्त्रणम् अभिष्टदिशि प्रेरणं वा मानवीयाधिगमः अवबोधः आचरणं प्रचारश्चेति मानवीयमूल्यबोधः भवति ।1
PDF URL: View Article in PDF
