मुरलिध्वनिसप्तत्यां रसविचार:

Author(s): डॉ. कमलिनी पण्डा

Abstract:

पण्डितमिश्रस्य लेखा: (काव्यम् , खण्डकाव्यम् , चम्पू:, तथा नाटकानि) च अहं पठितवत्यस्मि। तत्र खण्डकाव्येषु भक्तिभाववाहुल्यं मनोभावस्य नमनीयता तथा संपूर्णर्तया आत्मसर्मपणं परिलक्ष्यते। वैजयन्तीशतकम् , सारलाशतकम्, श्रीरामलीलामृतम् इत्यादौ तत् तद् देवतानां करुणाविलास: अनुभूयते। किन्तु वदनचन्द्रपञ्चाशिकायां भगवतोवदनसरोरुहस्य वर्णनच्छलेन भक्तान्तरभावनाराशि: तस्मिन् वदने समनुभूयते। मुरलिध्वनिसप्तत्या भगवतोवंशीवदनस्य मुरलीध्वनि: संपूर्णं विश्वं परिवाप्य योगिनां, भोगिनां, पापिनां, देवानां च मन:सु अपूर्वां कामपि प्रीतिं जनयति । येन समग्रविश्वं उद्वेलितं भवति। इन्द्राणि निजं विस्मरति । समुदायेन खण्डकाव्यानि भक्तिरसप्रभूतानि । समाजे सामाजिकानां मन: शोधनं मोदनं च विदधाति । अथ चम्पूकाव्यम् -: प्रसेनविजयचम्पू: नामकेकाव्ये कवे: चरमकुशलता परिलक्ष्यते। संपूर्णं संस्कृतजगत्यां मङ्गलाचरणेषु विविधदेवानां स्तुति: परिलक्ष्यते । अस्य काव्यस्य स्वातन्त्रियं यत् मातृभूमिवन्दना एव मङ्गलाचरणं भवति । ग्रन्थसमाप्तौ च जगन्नाथस्य भारतं प्रति आर्शीवाद: कृत: अस्मि । मध्ये राष्ट्रस्यहिताय व्यक्तीनां मङ्गलाय वहव: उपदेशा: निहिता: तथा राष्ट्रसङ्कटमोचनाय विविधा: उपाया: वर्णिता:। मन्ये एतत् काव्य राष्ट्रहिताय एव कवि: रचितवान्। नाटकेषु च सामाजिकचेतना, पारिवारिकवन्धनम् , आत्मपरिशीलनं व्यक्तिसचेतनता वाहुल्येन वर्णिता: भवन्ति ।

PDF URL: View Article in PDF