शूलपाणिविरचितप्रायश्चित्तविवेके अनुपातकप्रायश्चित्तविमर्शः

Author(s): अर्पितापरिडा

Abstract:

तत्र महापातकवक्तव्यमाने सति तस्यान्वर्थसंज्ञया अस्यानुपातकत्वमिति संज्ञा सुतरां ब्रह्महत्या-दिवत्प्रायश्चित्तं द्वादशवर्षाणि अज्ञानतो ज्ञानतो वा मरणान्तिकं भवति। अनुपातकानि चतुर्विंशति-संख्यकान्यनृतादिवाचनं समुत्कर्षज्ञापनाय प्रवर्तते। तत्र अन्यानि तु सुरापानवत् ब्रह्मोज्झिता वेदनिन्दा सुहृद्वधादीनां विवरणं प्रदीयते। रजतादीनां हरणत्वेन सुवर्णस्तेयवद् अनुपातकत्वसंज्ञा। तदनु अन्त्यजानां चाण्डाल्यादीनां गमने पुत्रस्त्रीप्रभृतीनामगम्यानां गमने अपि गुरुतल्पवत् प्रायश्चित्तं पराकव्रत-विशेषस्यानुष्ठानरूपं द्वादशवर्षं मरणान्तिकं वा अरण्ये वासः पञ्चधेनुदानमित्यादिनैकप्रसङ्गः तत्र तत्र समायान्ति।

PDF URL: View Article in PDF