Author(s): गीताञ्जलिसेठी
Abstract:
पण्डितप्रवरस्य श्रीव्रजकिशोरत्रिपाठिन: कृतय: साधारणतया भवन्ति - महाकाव्यानि, खण्डकाव्यानि (शतककाव्यानि), ध्यानपरकस्तुतिकाव्यानि, कर्मकाण्डपरका: ग्रन्था:, समालोचनात्मकाश्च ग्रन्थाश्च । एतेषु काव्येषु समाजस्य धनात्मका: (Positive) ऋणात्मकाश्चेति (Negative) उभयपक्षस्योपस्थापना क्रियते । कस्यापि काव्यस्य सामाजिकाध्ययनसन्दर्भे अधोलिखिता: विषया: सामान्यतया चर्च्यन्ते । यथा- सामाजिकसंरचनासन्दर्भे समाजे वर्णव्यवस्था, जातिव्यवस्था, पारिवारिकजीवनम्, समाजे नारीणां स्थानम्, समाजस्य विभिन्नवर्गा: यथा - धनिका:, निर्धना:, भक्ता:, पापिन:, कुमतय: दुर्जना:, सज्जना: इत्यादय: अन्तर्भवन्ति । तत: समाजे जनानामार्थिकजीवनं परिशील्यते, यत्र आजीविकाया: साधनानि - कृषि:, वाणिज्यम्, आर्थिक्य: विषमता:, मुद्रा, करप्रणाली च आलोचनापथे आगच्छन्ति । सांस्कृतिकं धार्मिकं जीवनं पुरस्कृत्य जनानां धार्मिका: विश्वासा:, सम्प्रदाया:, उत्सवा:, मेलापका:, मनोरञ्जनानि, रीतिनीति:, संस्कारा:, वस्त्राभूषणानि, खाद्यपेयानि च चर्च्यन्ते । शिक्षा-दर्शन-मूल्यबोधा: कथं समाजं प्रभावयन्ति ? तद्विषये कवे: क: अभिप्राय: तदपि आलोच्यते । अत्र नैतिकमूल्यानि, आदर्शवाद:, समाजे प्रचरिता: कुरीतय:, अन्धविश्वासाश्च अन्तर्भवन्ति । एवं सम्पूर्णभावेन काव्यं कथं समाजं प्रभावयति अथवा काव्यं समाजेन कथं प्रभावितमस्ति तदपि विषयवस्त्वालोचनापथे अवतरति । आधुनिकसमाजे चर्च्चितस्य काव्यस्य प्रासङ्गिकता का ? युगीयसमस्यानां चित्रणं समाधानं च कथं कविना क्रियते ? इत्यस्मिन् विषये चर्च्चा क्रियते । एतत्सर्वं मनसि निधाय व्रजकिशोरत्रिपाठिवर्याणां काव्येषु सुप्रसिद्धे ऋतुकाव्ये के के सामाजिका: विषया: सन्ति तद्विषये अस्मिन् शोधपत्रे प्रतिपाद्यते ।
PDF URL: View Article in PDF
