स्मार्तधर्मपरम्परायां निमित्तधर्मस्य समासेनाध्ययनम्

Author(s): डॉ.शकुन्तलादाशः

Abstract:

अस्मिन् शोधलेखे भारतीयधर्मपरम्परायाः केन्द्रीयतत्त्वभूतस्य धर्मस्य तात्त्विकं शास्त्रीयं च स्वरूपं निरूप्यते। चतुर्षु पुरुषार्थेषु प्रथमपुरुषार्थरूपेण प्रतिष्ठितो धर्मः सामान्यतः श्रौतधर्मः तथा स्मार्तधर्मः इति द्विधा विभज्यते। श्रौतधर्मस्य वैदिककर्मात्मकस्वरूपं, यागयज्ञादिकर्मणां तथा उपनिषद्विहित-विद्यानां च प्रवृत्तिनिवृत्तिभेदेन विवेचनं कृतम्। मनुस्मृत्यादिशास्त्रवचनेषु प्रतिपादितं प्रवृत्तिधर्मनिवृत्तिधर्मयोः भेदाधारेण धर्मस्य सांसारिकाभ्युदयहेतुत्वं तथा नैःश्रेयसप्राप्तिहेतुत्वं च स्पष्टीकृतम्। तत्पश्चात् स्मृतिशास्त्रेषु प्रतिपादितस्य वर्णाश्रमव्यवस्थाया ऐतिहासिकविकासः, मनु–याज्ञवल्क्य–गौतम–वसिष्ठ–आपस्तम्बादीनां मतानां तुलनात्मकमध्ययनं च कृतम्। विशेषतः विज्ञानेश्वराचार्येण मिताक्षराटीकायां प्रतिपादिताः षड्विधाः स्मार्तधर्माः—वर्णधर्मः, आश्रमधर्मः, वर्णाश्रमधर्मः, गुणधर्मः, निमित्तधर्मः, साधारणधर्मश्च—सविस्तरं विवेचिताः। एतेषु धर्मेषु निमित्तधर्मरूपेण प्रायश्चित्तस्य स्थानं, तस्य पापशोधनात्मकं सामाजिकोपयोगित्वं च विशदीकृतम्। अयं शोधः धर्मस्य वैदिकस्मार्तपरम्परायां समन्वितं सैद्धान्तिकं तथा व्यावहारिकं स्वरूपं प्रकाशयति।

PDF URL: View Article in PDF