Author(s): हरीश कुमार , डॉ. उमेश चन्द्र जोशी
Abstract:
विद् ज्ञाने इति ज्ञानार्थकाद् विद्धातोर्घञि प्रत्यये कृते वेद इति रूपं निष्पन्नं भवति। एवं वेद शब्दः ज्ञानार्थकः अस्ति। एवमेव ज्ञानराशिर्वेदः वयं इति वक्तुं शक्यते। विद् सत्तायाम्, विद विचारणे, विद्लृ लाभे, विद् चेतनाख्याननिवासेषु इति धातुभ्योऽपि घञि वेदरूपं निष्पन्नं भवति। वेदार्थान्वेषणाद् ज्ञायते यत वेदाः हि विविध ज्ञानविज्ञान राशयः, संस्कृतेराधाररूपाः कर्तव्याकर्तव्य अवबोधकाः, शुभाशुभनिदर्शकाः, जीवनस्योन्नायकाः, विश्वहितसम्पादकाः, आचार-संचारकाः, सुखशान्तिसाधकाः, ज्ञानालोकप्रसारकाः, सत्यतायाः सरणयः, कलाकलापप्रेरकाः, आशायाः आश्रयाः, नैराश्यविनाशकाः, चतुर्वर्गावाप्तिसोपान स्वरूपाश्च सन्ति। वेदानां महत्त्वविचारचिन्तायां कतिपयेऽनुयोगाः पुरतोऽवतिष्ठन्ते। कति वेदाः ? किं वेदानां महत्त्वम् ? किं च तत्र विशिष्ठं ज्ञानम् इति। किं तेषां व्यावहारिकी उपयोगिता ? कि वेदाध्ययनस्यजीवने उपयोगित्वम् किं च समस्याबहुले जगति समस्यानिराकरणत्वं वेदानाम् ? किं च वेदानां धार्मिकं राजनीतिकम्, आर्थिकं, वैज्ञानिकम्, ऐतिहासिकम्, काव्यशास्त्रीयम्, शास्त्रीयम्, सामाजिकम्, सांस्कृतिकं च महत्त्वम्? इति एव अत्र समासतो विव्रियते प्रस्तूयते च।
PDF URL: View Article in PDF
