जशपुरस्थ आदिवासिजनजातीयान् मुख्यधारायामानेतुं सनातनसंतसमाजस्य भूमिका

Author(s): कुमारी शीतला

Abstract:

जशपुरराज्यक्षेत्रस्‍य स्थापना अष्टादश शताब्द्यामभवत्। जशपुर इति मण्डलं 1998 तमे वर्षे 25 पंचविशतितारिकायां रायगढ़त: पृथक् भूत्वा नवीनमण्डलरूपे आविर्भूतम्। जशपुरराज्यक्षेत्रस्‍य 1948 तमे वर्षे भारते विलयः अभवत्। जशपुररियासतः स्वकीय जनजाति‍य-संस्कृतिः रियासतकालीन प्रशासनं तथा च इसाई मिशनरीभिः कृतकार्यै: क्षेत्रीयेतिहासे विशिष्‍टं स्थानं विद्यते। छत्तीसगढ‌प्रदेशस्य जशपुर क्षेत्रे ईसाई मिशनरीणां व्‍यापकः प्रभावः आसीत्। वर्त‌माने समये जशपुर छत्तीसगढस्य प्रमुखं मण्डलमेव । स्वविशिष्टभौगोलिकस्थितेः जनजातीयसंस्कृतेश्च कारणेन जशपुरस्य विशिष्‍टं स्थानं वर्तते। जशपुरस्थ आदिवासी-जनान् मुख्य-धारायामानेतुं सनातनसंतसमाजस्य महती भूमिका वर्तते। शोधपत्रमिदं सनातनसंतसमाजस्य भूमिका योजना-उद्देश्यानां तथा च आदिवासी समाजं प्रति कृतकार्याणां प्रकाशनं कृत्वा शास्त्रसिद्धान्तानां भूमिका का? अस्यापि विश्लेषणं करोति ।

PDF URL: View Article in PDF