धात्वर्थसिद्धान्तमीमांसा

Author(s): आचार्यः पङ्कजकुमारव्यासः

Abstract:

तत्र शाब्दबोधविचारवेलायां धात्वाख्यातार्थ-लकारार्थ-सुबर्थ-निपातार्थादिविषयेषु यथा शाब्दिकाः स्वशास्त्रसम्प्रदायानुसारेण तत्तदर्थनिरूपणाय प्रवर्तमाना दृश्यन्ते। तथैव नैयायिक-मीमांसकादयः तन्त्रान्तरीया अपि समं प्रवर्तन्ते तत्तदर्थनिरूपणाय स्वसम्प्रदायरीतिमवलम्ब्य। अत एवार्थिकविचारेषु परस्परममीषां शास्त्रकाराणां भृशं दृश्यते वैषम्यं, क्वचित्साम्यं चापि। शब्दशास्त्रे शब्दस्यैव परमप्रामाण्यमिति शाब्दिका आमनन्ति। ऋते तु शब्दान्न किञ्चिदपि भासते लोके। यतो लोके न किमपि ज्ञानं शब्दविरहितं भवति। उक्तं यथा वाक्यपदीये

PDF URL: View Article in PDF