नाट्यशास्त्रीयपरम्परायां श्रीरूपगोस्वामिनः नाटकचन्द्रिका

Author(s): SUMAN SARKAR

Abstract:

शोधलेखेऽस्मिन् संस्कृतसाहित्यस्य विशालनाट्यशास्त्रीयपरम्परायां गौडीयवैष्णवसम्प्रदायस्य मूर्धन्या-चार्यस्य श्रीरूपगोस्वामिनः नाटकचन्द्रिका इति ग्रन्थस्य, प्रयोजनं, स्थानं, महत्त्वं, सिद्धान्तपरिपाटी च यथाशास्त्रं विमृश्यते। आचार्यभरतमुनेः नाट्यशास्त्रात् आरब्धायामस्यां परम्परायां भक्तिरसाश्रितानां स्वविरचितनाटकानां (ललितमाधव-विदग्धमाधवादीनां) लक्षणसमन्वयाय रूपगोस्वामिना ग्रन्थोऽयं प्राणायि। पारम्परिकलक्षणग्रन्थवैलक्षण्यम्, आचार्यविश्वनाथमतवैपरीत्यं, भरतमुनिसिद्धान्त-वैष्णविकृतिश्च ग्नन्थस्यास्य निरूपयितुं प्रकृतशोधलेखोऽयमुद्दिश्यते।

PDF URL: View Article in PDF