Author(s): सुधामयी पति
Abstract:
प्रस्तुत लेखेऽस्मिन् आदौ संस्कारतत्त्व–संस्कारसारदृष्ट्या संस्कारस्य स्वरूप भेदादिविषये कथयित्वा ततः प्राग्जन्मसंस्काराः गर्भाधानं पुंसवनं सीमन्तोन्नयनानां स्वरूप-काल-प्रयोगादिविषये स्मृति-सूत्र-पुराण-निबन्धादि वचनानि समुत्थाप्य विचारः स्यात्। तत्र संस्काराणां संख्याविषये मतभिन्नता परिलक्ष्यते। केषाञ्चित् मतानुसारेण षोडशसंस्काराः अपरेषां तु पञ्चविंशतिः, अन्ये केचन चत्वारिंशत् अष्टचत्वारिंशत् वा संस्काराणि प्रतिपादितानि। तथापि तत्तद् गृह्यसूत्रानुसारेण तथा तथा कर्माणि अनुष्ठेयानि इति संस्कारसारकारस्याशयः। ततः गर्भाधानसंस्कारस्य कालादिविषये प्रतिपादितानि। स्त्रीणां शोणितदर्शनोपलक्षितः गर्भग्रहणसमर्थः शरीरावरणविशेषो भवति ऋतुः। अतः ऋतु प्रजाजननयोग्यकालः तन्निमित्तेन नैमित्तिकं गमनं कार्यम्। स च ऋतुकालः रजोदर्शनमारभ्य षोडशनिशापरिमितकालः। तस्मिन् ऋतौ आद्या चतस्रः रात्रयः, चतुर्दशी-अष्टमी-आमावस्या-पूर्णिमादयः पर्वाणि, संक्रान्तिः, ज्येष्ठा-मूल-मघा-आश्लेषा-रेवती-कृत्तिका-अश्विनी-उत्तराषाढा-उत्तरभाद्रपद-उत्तरफा-ल्गुन्यादयः नक्षत्राणि वर्ज्यानि। एता रात्रयः वर्जयित्वा अन्यासु युग्मासु पुत्रार्थी अयुग्मासु कन्यार्थी स्त्रीसंगमनं कुर्यात्। ततः पुंसवनाख्य संस्कारविषये विचारः अस्ति। पुमान् सूयतेति पुंसवनम्। गर्भमासस्य तृतीये चतुर्थे मासि वा पुंसवनाख्य संस्कारः करणीयम्। संस्कारस्य शुभाशुभतिथिनक्षत्रादि प्रसंगेऽपि अत्र विचारः अस्ति। ततः सीमन्तोन्नयनाख्य संस्कारस्य तिथिनक्षत्रादिकालविषये विचारः अस्ति।
PDF URL: View Article in PDF
