Author(s): सन्तोषी महापात्रः
Abstract:
समस्तरूपोपपन्न लिङ्गप्रतिपादक वाक्यं न्यायः इति लक्षणम् मणिकारेण परित्यज्य लक्षणानन्तरम् उच्यते। अनुमिति-चरम-कारण लिङ्गपरामर्श प्रयोजक शाब्दज्ञानजनक वाक्यं न्यायः इति। अनुमितिं प्रति चरमकारणैभूतः इह लिङ्गपरामर्शः तस्य प्रयोजकं यत् शाब्दबोधात्मक ज्ञानम् तदजनकं वाक्यं न्यायः इति करणे चरत्वम् य अनुमिति अव्यवहित पूर्ववर्त्तित्वम्। लिङ्गपरामर्श नाम्ना साध्यनिष्टप्रकरतानिरूपित, व्याप्यनिष्ठ प्रकारतानिरुपित लिङ्गनिष्ठप्रकारताशालि बह्निव्याप्य धूमवान् पर्वत इत्याकारक मानस प्रत्यक्षः विशेषः। लक्षणस्य इत्थं समन्वयः। अनुमितिः पर्वतः वह्निमान् इत्यनुमितिः। चरमकारणभूतः यः लिङ्गपरामर्श वह्निव्याप्य धूमवान् अयं इति लिङ्गपरामर्शः। तस्य प्रयोजकम् यत् शाब्दबोधात्मक ज्ञानम् महावाक्यविषयकज्ञानम्। तत्जनकं वाक्यम् समूहालम्बनात्मक न्याय वाक्यम् इति लक्षणस्य समन्वयः।
PDF URL: View Article in PDF
