Author(s): डॉ.पारमिता पण्डा
Abstract:
अस्माकं सत्यसनातनभारतीयसंस्कृतौ चतुर्दशविद्यानां महत्वपूर्णं स्थानं वर्तते। एताषु चतुर्दशविद्याषु अष्टादशमहापुराणानां स्थानं अतुलनीयम्। पुराणसाहित्यं हि भारतस्य भारतीयज्ञानपरम्परायाश्च अमूल्यो निधिः वर्तते। पुराणेषु स्पृहणीयचरितानां राजर्षि-महर्षि-देवर्षीणां पवित्रजीवनचरितस्य विवरणं अस्माभिः साक्षात् द्र्ष्टुं श्क्यते। हिन्दुसंस्कृतेः वास्तविकचित्रं पुराणेषु एव सुरक्षिता विद्यते। पौराणिककथानुसारेण आध्यात्मदर्शन –धर्म– नीति –कलाकौशल- भूगोल –खगोल – वास्तुज्ञान-विज्ञानानामद्भुतं रहस्यं विद्यमानं वर्तते।यथा सृष्टि – प्रलय - स्वर्ग –नर्क –आश्रमचतुष्टय –साधन-चतुष्टय - भगवद्भक्ति – मोक्ष - आचारविचारोपदेश - वंश – वंशानुचरति - मन्वन्तर – भुवनकोश – ईश्वरतत्त्व - जीववैचित्र्यादयो बहुविधविषयाः आलोकिताः सन्ति। अतः स्कन्दपुराणे उक्तम्-
PDF URL: View Article in PDF
