Author(s): बदरीनाथ बळ्ळरिः, आचार्यः नारायणः
Abstract:
‘भारतस्य प्रतिष्ठे द्वे संस्कृतं संस्कृतिस्तथा’ इत्याभणके संस्कृतस्य महत्त्वमुपवर्णितम्। तत्र ‘व्यासोच्छिष्ठं जगत्सर्वम्’ इत्युक्तरीत्या संस्कृतेर्मूलं च संस्कृतमेवेत्यगम्यते। यतः सर्वे सन्ति च संस्कृतसाहित्यप्रपंचे। तादृशेऽस्मिन् संस्कृतसाम्राज्ये चक्रवर्तितामापुः दर्शनानि। दर्शनान्यपि आस्तिकनास्तिकभेदेन द्वेधा । आद्ये न्यायवेदान्तमीमांसादयः। द्वितीये चार्वाकादयः। तत्र आस्तिकदर्शनेषु वेदान्तदर्शनस्य परमौन्नत्यं दरीदृश्यते। वेदान्तदर्शनेऽपि द्वैताद्वैतविषयिण्यः चर्चाः तत्र तत्र संचलन्ति। प्रायः ताः यमधिकृत्य तत् “न्यायामृतम्। अयं माध्ववेदान्तग्रन्थेषु अत्यन्तं प्रधानः कठिण इत्येव प्रसिद्धः। यः श्रीमद्व्यासराज-तीर्थश्रीपादैः (षोडशतमे शतके) निर्मितः॥ तत्र सामान्यतः ‘विश्वं मिथ्या दृश्यत्वात्’ इत्यनुमानं पुरस्कृत्य कथा प्रवर्तते। तदिदं मिथ्यात्वं कीदृशम् (किंरूपम्) इति जिज्ञासायां; नैके ब्रह्मवादिनः स्वस्वग्रन्थेषु बहुरीत्या निर्वचनं कृतवन्तः। प्राधान्येन पंचधा निरुक्तं दृष्यते । तत्रादौ पंचपादिकारीत्या ‘मिथ्यात्वं नाम सदसत्त्वानधिकरणत्वम्’ ॥
PDF URL: View Article in PDF
