परासंज्ञानं सूचनासम्प्रेषणप्रविधिकौशलानि च : अङ्कीयाधिगमदक्षतानां विकासः

Author(s): पुलकदासः

Abstract:

वर्तमानयुगे विज्ञानस्य प्रविधेश्च तीव्रविकासेन शिक्षाक्षेत्रे महत्त्वपूर्णपरिवर्तनानि अभवन्। पारम्परिक-शिक्षणपद्धतेः स्थाने अङ्कीयशिक्षणस्य (Digital Learning) महत्त्वं निरन्तरं वर्धते। अन्तर्जालस्य, सङ्गणकस्य, चलदूरभाषस्य, अङ्कीयमाध्यमानां तथा कृत्रिमबुद्धिमत्तायाः उपयोगेन शिक्षणाधिगम-प्रक्रिया अधिका सरलतया प्रभावपूर्णा च जाता। अस्मिन् सन्दर्भे परासंज्ञानस्य (Meta-Cognition) तथा सूचनासम्प्रेषणप्रविधिकौशलानां (ICT Skills) महत्त्वं विशेषतः वर्धते। परासंज्ञानस्य अर्थः स्वचिन्तनस्य विषये चिन्तनं तथा स्वकीयाधिग-मप्रक्रियायाः अवगमनं, निरीक्षणं, नियन्त्रणं, मूल्याङ्कनं च इति। ICT कौशलानि तु सङ्गणकस्य, अन्तर्जालस्य च अन्येषाम् अङ्कीयसाधनानां शिक्षणार्थं प्रभावपूर्णः उपयोगः इति बोधयन्ति। परासंज्ञानं विद्यार्थिनः स्वाधिगमस्य उत्तरदायित्वं स्वीकर्तुं प्रेरयति, ICT कौशलानि च तस्मै ज्ञानप्राप्तये नवीनावसरान् प्रददति। उभयोः समन्वयेन विद्यार्थिषु स्वतन्त्राधिगमस्य, आलोचनात्मकचिन्तनस्य, सृजनात्मकतायाः, समस्यासमाधानस्य तथा अङ्कीयसाक्षरतायाः विकासः भवति। प्रस्तुतशोधलेखे परासंज्ञानस्य अर्थः, ICT कौशलानां महत्त्वं, तयोः परस्परसम्बन्धः, अङ्कीयाधिगमे तयोः भूमिका, डिजिटल्-अधिगमदक्षतानां विकासः तथा शिक्षणाधिगमप्रक्रियायां तयोः उपयोगिता विवेच्यते।

PDF URL: View Article in PDF