Author(s): डॉ. मनुदेवः
Abstract:
पदार्थशास्त्रेषु वैशेषिकदर्शनस्याग्रिमस्थानम्। वैशेषिकदर्शनानुसारं द्रव्यादिषट्पदार्थाः सन्ति। यथोक्तं महर्षिकणादेन वैशेषिकसूत्रे 'धर्मविशेषप्रसूताद् द्रव्यगुणकर्मसामान्य-विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम्।' एतेषु सम्प्रदायेषु द्रव्यपदार्थः द्रव्यत्वम्। तच्च द्रव्याणि नव। यथोक्तमस्ति वैशेषिकसूत्रे 'पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि।' महर्षिकणादेन द्रव्येषु मनसो निर्देशः कृतः। पृथिव्यादिषु अन्तिमद्रव्यं भवति मनः। महर्षिः पतञ्जलि इव वैशेषिकाः अपि मनसो नित्यत्वमङ्गीकुर्वन्ति। परन्तु मनसः परमाणुपरिमाणवत्त्वमिति एते वदन्ति, विभुपरिमाणवद्वन् द्रव्येषु मनसो पाटञ्जलेभ्यो भिद्यते। वैशेषिकाः मनसो वेत्त्वं, क्रियात्त्वं, अनेकत्वञ्चाङ्गीकुर्वन्ति इन्द्रियत्वमप्यङ्गीकुर्वन्ति। मनः आभ्यन्तरं मनसः आत्मानां संयुक्तं मनः इन्द्रियैस्सहयुज्य प्रत्यक्षदीनि ज्ञानान्युत्पादयति। ज्ञानान्यशः आत्मा, तस्य साधनं मनः इति एतेषामभिप्रायः। विषयैन्द्रिय संयोगे सत्यपि मनसः अभावे आत्मनि ज्ञानं नोत्पद्यते। अतः वैशेषिकाः अनुमानप्रमाणेन मनः साधयन्ति। एतेषाम्मते मनः अतीन्द्रियं भवति। सुखदुःखादीनि मनः साक्षात्कारयति। निद्रावस्थायां स्वापसमये मनो निश्चलं भवति। आत्मेव मनोऽपि शरीरस्यान्तरेव व्यापारं करोति। मनः अणुपरिमाणं भवति। अत्र अणुनापि पृथिव्यादीनां यादृशोऽणुः तादृशो ना। ततो विशिष्टोऽयमणुः।
PDF URL: View Article in PDF
