Author(s): डॉ.पवित्रकुमारनन्दः
Abstract:
शारीरिकमाध्यात्मिकभौतिकचेतनायाः प्रेरणास्रोतस्त्वेन सूर्यो भारतीयसंस्कृतौ प्राचीनकालादेतावत् पर्यन्तं समेषां नित्यनैमित्तिककाम्यकर्मणां प्रधानाराध्यदेवस्त्वेन वैदिकयागपद्धतेरपि भौतिकाग्नित्वेन तस्यैव प्रतिपत्तिः आहवनीयगार्हपत्यदाक्षिणात्याद्यग्नौ एकत्वसंहननं विधीयते। असौ सूर्यः प्राचीनज्योतिस्सिद्धान्तं पुरस्कृत्य कालमानस्य प्रतीकभूतश्चेति विप्रतिपत्तिर्न लक्ष्यते। औषधिभ्यः प्राणस्वरूपमादित्यो रश्मिभिः प्रत्येकं प्राणिष्वन्तः जीवनस्य प्रतिस्पन्दनं विदधाति। शारीरिक-मानसिकभौतिकोत्कर्षतायै अस्य भूमिका सायंप्रातः अनुष्ठीयमानकर्मविशेषेषु बहुधा श्लाघ्यते। प्राचीनसाहित्यस्याध्ययनाद् बहूनां रोगाणां कुष्ठादीनां प्रमुखव्याधीनां निराकरणे सूर्यस्य स्तुतिः सूर्यरश्मेश्च महती भूमिका बभूव। शारीरिकमाध्यात्मिकोत्कर्षतायै सवितृदेवस्योपास्यत्वं शास्त्रीय-विधावपि बहुधा वर्णितम्। तमसो दूरीकरणं विधाय द्यावापृथिवीमयं सूर्यः स्वप्रकाशेन द्योत्ययन् सर्वप्राणीनामुत्प्रेरकत्वेन प्रत्यक्षमनुभूयदेवत्वे अस्य प्रसक्तिः शास्त्रीयपरिप्रेक्ष्ये प्रसज्यते।
PDF URL: View Article in PDF
