रसचेतनाविमर्शः

Author(s): डा. देवाशिषत्रिपाठी

Abstract:

काव्यपठनेन श्रवणेनाथचाभिनयदर्शनेन च यादृश आनन्दो भवत्यस्मादृशानां स एवानन्दो रसः इति सार्वजनीनानुभवः । तर्हि कानि साधनानि सन्ति यानि रसं निष्पादयन्तीति चेत् ? विभावानुभाव-व्यभिचारीसंयोगाद्रसनिष्पत्तिः' इति भरतसूत्रमस्ति । नाट्यशास्त्रे तेन बहुभिव्याख्यातम्। तत्र मतभेदोप्युत्पन्नः । इदमल्पाकारमप्यनेक व्याख्याकर्तृणां तर्कमूलिकां हृदयङ्ग‌मां सारभूतां युक्तियुक्तां व्याख्यामवलोक्यातिमहत्वाधायकमित्यामनन्ति सर्वे। रसनिष्यत्तेः सिद्धान्तस्य मूलप्रणेता, नाट्यशास्त्ररचयिता, प्रयोगकर्ता च भरतमुनिः। यद्यपि रसः ब्रह्मवत् अवाड्मनसगोचरः "तथापि केचन सहदयाः, सामाजिकाः भाग्यवन्तः एनमास्वादयन्ति । दृश्यकाव्ये दर्शकाः, श्रव्यकाव्ये श्रोतारः "सामाजिकाः" इति कथ्यन्ते । आल‌ङ्कारिकाः कथयन्ति - कोऽयं रसः ? तस्मादलौकिकः सत्यं वेद्यः सहदयैरयम् । इति रस' शब्दः आनन्दवाचकः । ब्रह्मणः स्वरूपं आनन्दमयम्। " रसो वै सः " इति श्रुतिवचनं रसशब्देनोच्यते । स आनन्दात्मकः । वैदिकसाहित्ये रसशब्द‌स्योल्लेखः सोमरसस्यार्थे वर्तते। रसं ह्येवायं लब्धानन्दी भवति । “दधानः कलशे रसम्” 2भाव एव रसस्य वीजं मूलरूपमित्युपलब्धं भवति । तत्र कव तिवृति भावः, किं च स्वरूपमेतस्येति चेत् ? सहृदयसामाजिकानां हृदये तिष्ठत्ययं भावः । प्राक्तनजन्मनः संकारस्वरूप एव । एते एव भावाः काव्येषु वर्णितविभावादिद्वारा पुष्टीभूय रसरूपे परिणताः भवन्ति, एते च चेतनाचेतनमानस किञ्चित्कालमेकीकृत्य तन्मध्यगतां यवनिकामपहृत्य अस्मद् हृदयस्य तच्चरमसोपानसीमापर्यन्तं प्रापयन्ति यत्र वयं मनोराज्ये विचरण कुर्मः, तत्र केवलानन्द एवानन्दो वर्तते । अयमानन्द : 'रस' संज्ञ‌या व्यपदिश्यते । लौकिक सन्नप्यलौकिक एवायम् । वेदान्तदिशा दिव्यरूपो ब्रह्मास्वादसहोद‌र: कथ्यते । के सहृदयाः ? येषां काव्यानुशीलन अभ्यासद्वारा विशदीभूते मनोदर्पणे तन्मयीभवनयोग्यता ते स्वहृदयसंवादभाजः सहृदयाः ।

PDF URL: View Article in PDF