Author(s): विकास आचार्यः
Abstract:
वाजसनेयिप्रातिशाख्यं शुक्लयजुर्वेदस्य माध्यन्दिनकाण्वशाखयोः वैदिकस्वरवर्णोच्चारणादि- नियामकं प्रातिशाख्यग्रन्थः। अस्य ग्रन्थस्य प्रणेता कात्यायनमहर्षिरिति प्रसिद्धिः। अयं ग्रन्थः वेदमन्त्राणाम् उच्चारणस्य, स्वरस्य, वर्णानां संहितायां परस्परसम्बन्धस्य च विशिष्टान् नियमान् प्रतिपादयति। अस्मिन् ग्रन्थे संस्कारविषये संस्कार-सन्धी शब्दौ प्रयुक्तौ। भाष्यकारोवटस्यानुसारं संस्कारो लोपागमवर्णविकारप्रकृतिभावलक्षणः1। तदनुसारेण वर्णरत्नप्रदीपिकाशिक्षायामपि संस्कारविधिः इति प्रतिपादितम्। संस्कारश्चतुर्विधो भवति- लोपागमौ विकारश्च प्रकृत्या भवनं तथा2। याज्ञवल्क्यशिक्षायाम् एतदेव सन्धि इति उक्तम्। सन्धिश्चतुर्विधो भवति- लोपागमविकाराः प्रकृतिभावश्चेति3। लोपः (Elision), आगमः (Insertion), वर्णविकारः (Modification), प्रकृतिभावः (Natural state)। सन्धि-संस्कार-उभौ पर्यायवाचिनौ शब्दौ स्तः। संस्कारशब्दः सम् उपसर्गपूर्वक-कृधातोः निष्पन्नः। सन्धिशब्दः सम् उपसर्गपूर्वक-धाधातोः निष्पन्नः। उभयोः शब्दयोः सामान्यतोऽर्थः संयोगः अथवा मेलनम् इति। प्रातिशाख्यग्रन्थेषु वर्णानां सामीप्यमात्रमेव सन्धिः संस्कारः वा इत्युच्यते। तत्र विकारो मा वा भवतु। परन्तु लौकिकसंस्कृते सन्धिशब्दस्य प्रयोगः तत्रैव क्रियते यत्र वर्णानां सन्निकर्षेण कोऽपि विकारो जायते। यत्र वर्णानां समीपे आगमनेऽपि कोऽपि विकारो न भवति, तत्र सन्धेः अभावः मन्यते। पदान्तपदाद्योः सन्धिः4। सन्धिः सामान्यतः पदान्ते पदादौ च भवति। आचार्योवटेन चतुर्विधाः सन्धयः प्रतिपादिताः – स्वरयोः, व्यञ्जनयोः, स्वरव्यञ्जनयोः, व्यञ्जनस्वरयोश्च5। तदनुसारेणैव शिक्षाकृद्भिः अमरेशैः अपि सन्धि इति उक्तम्।
PDF URL: View Article in PDF
