Author(s): Golenur Khatun
Abstract:
संस्कृतव्याकरणपरम्परायां प्रत्ययव्यवस्था शब्दनिर्माणस्य प्रमुखाधारः अस्ति। तेषु कृदन्तप्रत्ययानन्तरं तद्धितप्रत्ययाः अत्यन्तं व्यापकप्रयोगयुक्ताः, अर्थवैचित्र्यसम्पन्नाश्च प्रत्ययाः सन्ति। संस्कृतभाषायां नूतनप्रातिपदिकनिर्माण, सम्बन्धविशेषस्य प्रकाशने, वंशपरम्परायाः, देशस्य, जातेः, भावस्य, गुणस्य, विकारस्य, समूहस्य, संख्यायाः, मात्रायाः, देवतायाः, अपत्यस्य, गोत्रस्य च बोधने तद्धितप्रत्ययानां महत्त्वपूर्णा भूमिका वर्तते। अतः पाणिनीयव्याकरणे तद्धितप्रकरणं सर्वाधिकविस्तृतप्रकरणेषु अन्यतमं मन्यते। पाणिनिमहर्षिणा अष्टाध्याय्याः चतुर्थाध्यायस्य प्रथमपादे "तद्धिताः" इत्यधिकारसूत्रेण तद्धितप्रकर-णस्य प्रारम्भः कृतः। अस्य अधिकारस्य प्रवाहः पञ्चमाध्यायस्य समाप्तिपर्यन्तं दृश्यते। अनेन ज्ञायते यत् पाणिनिना तद्धितप्रत्ययानां विस्तीर्णं क्षेत्रं परिकल्पितम्। सम्पूर्णतया सहस्राधिकेषु सूत्रेषु बहवः प्रत्ययाः विविधानर्थेषु विहिताः सन्ति। एषा विस्तीर्णव्यवस्था संस्कृतभाषायाः शब्दनिर्माणशक्तिं, अर्थसमृद्धिं, व्याकरणवैज्ञानिकतां च प्रतिपादयति। शोधपत्रेऽस्मिन केवलं राजनैतिक -भौगोलिक सम्बद्धा: तद्धितप्रयोगा: एव अध्ययनार्थं स्वीकृता:।
PDF URL: View Article in PDF
