Author(s): ज्योतिरञ्जननन्दः
Abstract:
"ज्योतिषशास्त्रमनेकभेदविषयं" सत्यमस्तीदं वराहमिहिरस्य वचनम् । ज्योतिषशास्त्रे फलकथनस्य बहवः प्रकाराः सन्ति । तत्र प्रमुखाः सन्ति जातकशास्त्रम्, ताजिकशास्त्रम्, प्रश्नशास्त्रम्, स्वरशास्त्रम्, शकुनशास्त्रम्, अङ्कज्यौतिषम्, मुहूर्त्तम्, सामुद्रिकशास्त्रम्, रमलज्यौतिषम्, केरलीयम् इत्यादयः । एतासु शाखासु प्रत्येकशाखया जनस्य शुभाशुभफलकथनं भूतभविष्यफलकथनञ्च क्रियते । सामुद्रिकशास्त्रस्य वर्णनं तु दैवज्ञलक्षणवर्णनसन्दर्भं एव आरब्धः वराहमिहिरेण । अत्र आचार्यवराहमिहिरेण विहितं यत् जातकस्य गुणाः दोषाश्च तस्य शरीराकारानुवर्तिनः भवन्ति । यतो हि जातकस्य गुणदोषाणां चिन्तनं, शरीराकारवर्णादीनामपि चिन्तनं जन्मकुण्डल्याः लग्नस्थानात् क्रियते । अतः यादृशं लग्नं भवति तथैव स्वरूपं, शरीराकारः, चरित्रं, गुणदोषाच्च भवन्ति। अतः शरीरलक्षणानि दृष्ट्वा जातकस्य गुणदोषाणां चरित्रस्वभावादीनां च ज्ञानं कर्तुं शक्यते । एतदेव सामुद्रिकशास्त्रं मूलमस्ति । अनया विद्यया अपि महर्षयः फलादेशं कुर्वन्ति स्म । सामुद्रिकशास्त्रस्य विषयाः पुराणेषु बहुत्र प्राप्यन्ते । पुराणेषु मनुष्याणां हस्तपादयोः हलपदम् पुष्करिणी-हय-गजादिभिः फलकथनं दृश्यते । वस्तुतः मनुष्याणां हस्तपादयोः हयगजरथहलवृषभादीनां साक्षादाकृतिः न दृश्यते, परन्तु एतेषां विशेषचिह्नानि नूनं भवन्त्येव। अतः पुराणेभ्यः एतादृशानि चिह्नानि पृथक्तया विलिख्य सामुद्रिकशास्त्रं प्रणीतमस्ति । सामुद्रिकशास्त्रे मनुष्यशरीरे हयगज- शंखचक्रगदापद्महलादीनां चिह्नानि, हस्तरेखाः, ललाटरेखाः, नखशिखा-केशभ्रूभङ्ग-तिललांछनचिह्नानि च सूक्ष्मतया विलोक्य एव फलं विनिर्दिश्यते। अस्यां विद्यायां नृनारयोः सूक्ष्मतया अध्ययनं कर्तव्यं भवति । बृहत्संहिताग्रन्थे तु पञ्चमहापुरुषाणां लक्षणानि अपि सामुद्रिकशास्त्रधारेणैव विहितानि सन्ति । तत्रादौ किं नाम सामुद्रिकशास्त्रमिति जिज्ञासायां समुद्रस्येदं सामुद्रिकं तत् सम्बन्धिनं शास्त्रं सामुद्रिकशास्त्रमिति परिभाषा । अनया परिभाषया अनेन विग्रहेण वा द्वौ अर्थावत्र समुत्पद्येते। प्रथमस्तु 'समुद्रादुत्पन्नम्' अर्थात् समुद्रमन्थनसमये बहूनि तत्त्वानि, पदार्थाः, रत्नानि समुत्पन्नानि तदेव शास्त्रमिदमपि समुत्पन्नं स्यात्, अतएव सामुद्रिकम्। अपरोऽर्थः यः स्वीक्रियते सः वर्तते समुद्रपारात् आगतं स्यात्, अतः सामुद्रिकम् ।
PDF URL: View Article in PDF
