AI-युगे शिक्षकशिक्षा: तकनीकी-नवाचारस्य मानवीय-प्रज्ञायाश्च मध्ये सामञ्जस्यस्य अन्वेषणम्

Author(s): डॉ. हरिप्रसादमीना

Abstract:

एकविंशतिशत्यां कृत्रिमबुद्धिः (AI) शिक्षाक्षेत्रे युगान्तकारी प्रभावं जनयति। अनुकूली-अधिगमप्रणाल्यः, स्वचालित-मूल्याङ्कनं, अधिगम-विश्लेषणं च शिक्षण-अधिगमस्य पारम्परिक-संरचनां परिवर्तयन्ति। अतएव शिक्षकशिक्षायाः स्वरूपं, उद्देश्यानि, पाठ्यचर्या च पुनर्परिभाषिताः भवन्ति। अस्मिन् शोधे AI-प्रभावस्य दार्शनिकं, शैक्षणिकं, सामाजिकं, नैतिकं च विश्लेषणं कृतम्। AI केवलं प्राविधिक-उपकरणं न, अपि तु शिक्षायाः ज्ञानमीमांसीयां मूल्यमीमांसीयां च संरचनां प्रभावितं करोति। अतः आधुनिक-अध्यापकशिक्षायां तकनीकी-कौशलानां सह समीक्षात्मक-चिन्तनं, डिजिटल-नैतिकता, डेटा-साक्षरता, सांस्कृतिक-संवेदनशीलता मानवीय-सहानुभूतिश्च अनिवार्यानि। पाश्चात्यचिन्तकानां (ड्यूई, फ्रेइरे) विचारैः सह भारतीय-गुरु-शिष्य-परम्परायाः तुलना कृता। उपनिषदां प्रज्ञा-विद्या-विवेक-अवधारणाः शिक्षां केवलं तथ्य-सञ्चयं न, अपि तु विवेकपूर्ण-चेतनायाः नैतिक-विकासस्य साधनं मन्यन्ते। यन्त्राणि डेटा-विश्लेषणं कुर्वन्ति, किन्तु मानवीय-करुणां नैतिक-विवेकं च न प्रतिस्थापयन्ति। AI-जनिताः आव्हानाः—एल्गोरिद्मिक-पक्षपातः, डेटा-गोपनीयता, डिजिटल-असमता, मानवीय-सम्पर्क-ह्रासः—अपि विवेचिताः। NEP 2020 सन्दर्भे AI-साक्षरतायाः डिजिटल-नैतिकतायाश्च आवश्यकता प्रतिपादिता। AI शिक्षां वैयक्तिकीकृतां सुलभां च कर्तुं शक्नोति, परन्तु तस्याः सार्थकता तदा एव यदा तकनीकी-नवाचाराणां मानवीय-प्रज्ञा-मूल्यानां च सन्तुलितं समन्वयं शिक्षकशिक्षा स्थापयति। एषः मार्गः भविष्य-शिक्षां समावेशिनीं मानवीयां च करिष्यति। बीजशब्दाः (Keywords): कृत्रिमा बुद्धिः (Artificial Intelligence), शिक्षकशिक्षा (Teacher Education), डिजिटल-नैतिकता (Digital Ethics), डेटा-साक्षरता (Data Literacy), एल्गोरिद्मिक-पक्षपातः (Algorithmic Bias), भारतीयज्ञानपरम्परा (Indian Knowledge Systems), प्रज्ञा (Wisdom/Intuitive Consciousness), विद्या (Liberating Knowledge), शिक्षकभूमिका (Role of Teacher), राष्ट्रियशिक्षानीतिः २०२० (NEP 2020)।

PDF URL: View Article in PDF