Author(s): विशाल शर्मा
Abstract:
षष्ठीविभक्तिः संस्कृतव्याकरणे सम्बन्धबोधिका महत्त्वपूर्णा विभक्तिः अस्ति। सामान्यतः षष्ठीविभक्त्या सम्बन्धस्य बोधो भवति। पाणिनीयव्याकरणे “षष्ठी शेषे” इति सूत्रेण षष्ठीविभक्तेः विधानं क्रियते। अत्र ‘शेष’शब्देन कारकप्रातिपदिकार्थात् भिन्नः सम्बन्धविशेषः गृह्यते। अतः स्वस्वामिभावः, जन्यजनकभावः, अङ्गाङ्गिभावः, अवयवावयविभावः इत्यादयः विविधाः सम्बन्धाः षष्ठीविभक्त्या प्रतिपाद्यन्ते। व्याकरणशास्त्रे कारकस्य स्वरूपं क्रियाजनकत्वेन अथवा क्रियान्वयित्वेन निरूपितम् अस्ति। किन्तु षष्ठीविभक्तेः साक्षात् क्रियया अन्वयः न भवति, अतः सामान्यतः षष्ठी कारकविभक्तिषु न परिगण्यते। मीमांसकानां मते यथा धात्वर्थस्य भावनायाम् अन्वयः भवति, तथैव सुबर्थस्यापि भावनायां प्रकारतया अन्वयः स्वीक्रियते। अतः षष्ठ्यर्थस्य सम्बन्धस्यापि भावनायाम् अन्वयः सम्भवति। सम्बन्धे षष्ठीविभक्तेः शक्तिः इति तेषां मतम्। नैयायिकदर्शने तु सम्बन्धः सर्वत्र क्रियाकारकभावमूलकः स्वीक्रियते। “राज्ञः पुरुषः” इत्यादौ स्वस्वामिभावसम्बन्धोऽपि क्रियाकारकभावपूर्वक एव भवति। राजा पुरुषाय वेतनादिदानेन स्वामित्वं प्राप्नोति इत्यादिरूपेण सम्बन्धस्य क्रियामूलकत्वं नैयायिकैः प्रतिपाद्यते। महाभाष्यकारेण षष्ठीविभक्तेः सम्बन्धार्थकत्वस्य व्यापकता प्रदर्शिता अस्ति। स्वत्वादिसम्बन्धविशेषाणां विचारं कुर्वता भाष्यकारेण “एकशतं षष्ठ्यर्थाः” इति कथनमपि कृतम्। तेन षष्ठीविभक्तेः सम्बन्धबोधकत्वस्य व्यापकता स्पष्टतया ज्ञायते। अतः षष्ठीविभक्तेः स्वरूपं केवलं स्वामित्वसम्बन्धे सीमितं न भवति, अपि तु विविधसम्बन्धानां बोधनाय तस्याः व्यापकः प्रयोगः दृश्यते। प्रस्तुतविषये षष्ठीविभक्तेः अर्थः, कारकत्वसम्बन्धः, मीमांसक-नैयायिकमतयोः तुलनात्मकविवेचनम्, “षष्ठी शेषे” इति सूत्रस्य स्वरूपम्, शेषपदार्थस्य व्याख्या तथा षष्ठीविभक्तेः विभिन्नाः प्रकाराः इत्येतेषां क्रमबद्धतया अध्ययनं क्रियते। एतादृशेन विश्लेषणेन संस्कृतव्याकरणे षष्ठीविभक्तेः वास्तविकं स्वरूपं, तस्याः अर्थशक्तिः तथा सम्बन्धबोधे तस्याः महत्त्वं सम्यक् अवगन्तुं शक्यते।
PDF URL: View Article in PDF
