Author(s): बाबुला प्रधान:
Abstract:
भारते समाजनिर्माणे नारीणां भूमिका परिवर्तनकारिणी, अपरिहार्या च अस्ति। मातृत्वेन, शिक्षिकात्वेन, व्यावसायिकत्वेन, नेतृत्वकर्त्रीत्वेन च महिलाः राष्ट्रस्य प्रगतौ महत्त्वपूर्णं योगदानं यच्छन्ति। तासां योगदानं परिवारस्य पालन-पोषणात् आरभ्य ग्रामस्तरे स्वयंसहायतासमूहानां (SHG) माध्यमेन सामाजिकपरिवर्तनस्य प्रवर्तनपर्यन्तं विस्तृतम् अस्ति, विशेषतः ग्रामीणक्षेत्रेषु। शिक्षायाः तथा आजीविकायाः अवसराणां वृद्ध्या महिलाः आर्थिक-सामाजिक-विकासस्य प्रमुखशक्तिरूपेण उद्भूताः सन्ति। अद्यत्वे न केवलं गृहेषु, अपि तु विज्ञान-तन्त्रज्ञान-क्रीडा-प्रशासन-सेनादिषु विविधक्षेत्रेषु अपि ताः स्वप्रतिभां सिद्धं कुर्वन्ति।स्थानीयस्वशासनसंस्थासु आरक्षणादीनां व्यवस्थाभिः तासां राजनैतिकसहभागिता अपि वर्धिता, येन निर्णयप्रक्रियायां विकासकार्येषु च तासां प्रभावः सुदृढः अभवत्। एतदतिरिक्तं महिलाः सामाजपरिवर्तनाय आन्दोलनेषु अग्रणीभूमिकां निर्वहन्त्यः अन्यायस्य विरोधं कृत्वा समानतायाः, सामाजिकन्यायस्य, मानवाधिकाराणां च समर्थनम् अकुर्वन्। तासां सर्वतोमुखं योगदानम् एतत् सूचयति यत् भारतम् अधिकं समावेशी, प्रगतिशीलं च राष्ट्रं भवति, यत्र लैङ्गिकसमानता सततराष्ट्रीयविकासस्य मूलाधारः इति स्वीकृता अस्ति। भारतीयसंस्कृतौ नारीणां स्थानम् अत्यन्तं गौरवपूर्णम् अस्ति। प्राचीनकालात् एव नारीं "गृहलक्ष्मी", "जननी", "शक्तिस्वरूपिणी", "संस्कारदात्री" इति विविधैः नामभिः सम्मानितवती। यत्र नार्यः पूज्यन्ते तत्र देवताः रमन्ते इति मनुस्मृतिवचनं नारीणां महत्त्वं प्रकाशयति
PDF URL: View Article in PDF
