सांख्य-योगमते सृष्टितत्त्वम्

Author(s): मामिना साहुः

Abstract:

भारतीयपरम्परायां दर्शनं जीवनस्य, जगतः, आत्मनः तथा परमसत्यस्य च तत्त्वज्ञानमिति परिगण्यते।भारतीयदर्शने दर्शनस्य लक्ष्यं केवलं बौद्धिकचिन्तनं न, अपि तु मोक्षप्राप्तिरस्ति। अतः अत्र दर्शनं वहारिकजीवनस्य मार्गदर्शकम् अपि भवति। दुःखेऽस्मिन् संसारे सर्वे जीवाः दुःखं परिहर्तुमिच्छन्ति। केनापि दुःखं नैव इष्यते, अतः मानवः दुःखात् मोक्षं कथं मुच्यते, जीवस्य स्वरूपं किम्, जगतः कारणं किम्, ईश्वरः अस्ति वा न, इत्यादीनां प्रश्नानां समाधानं दर्शनशास्त्रे अन्विष्यते। अस्य नामरूपाख्यस्य विचित्रस्य जगतः कस्मादुत्पत्तिः। जीवः कः इति जिज्ञासा सर्वेषां वर्तते एव। उक्तं हि ऋग्वेदीयनासदीयसूक्ते-

PDF URL: View Article in PDF