Author(s): अमितकुमारशुक्लः
Abstract:
संस्कृतकाव्यशास्त्रे गुणानां स्थानं महत्त्वपूर्णं वर्तते । आचार्यभरतमुनिमारभ्य पण्डितराजजगन्नाथपर्यन्तं सर्वेऽपि आचार्याः काव्यगुणानां स्वरूपं स्वस्वदृष्ट्या विवेचितवन्तः। ऊनविंशतिशताब्द्यां प्रणीते स्वकीये साहित्यसारग्रन्थे महाकविः अच्युतरायमोडकः मम्मट-जगन्नाथादीनां सरणिम् अनुसृत्य गुणानां तर्कशुद्धं रसनिष्ठं च स्वरूपं प्रस्थापितवान् । काव्ये रसः मुख्योऽवयवी (आत्मा) अस्ति, गुणाश्च तस्य रसाङ्गस्य उत्कर्षविधायकाः अचलस्थितयो धर्माः सन्ति । काव्यप्रकाशकारेण मम्मटेनोक्तं यत् गुणाः आत्मनः शौर्यादिवत् रसस्य धर्माः भवन्ति । अस्मिन्नेव क्रमे ऊनविंशशताब्द्याः प्रख्यातविद्वान् अच्युतरायमोडकः स्वग्रन्थे 'साहित्यसारे' पूर्ववर्तिनां सिद्धान्तानां समन्वयम् अकरोत् । सः रसस्वरूपं सोपाधिकं मत्वा तत्र गुणानां अनिवार्यतां स्वीकरोति, यतो हि चित्तद्रुत्यादिजनकत्वात् गुणाः रसाद् अभिन्नरूपेण प्रकाशन्ते । साहित्यसारे गुणस्य लक्षणं रसपरकमेव विहितम् । काव्ये गुणाः न केवलं शब्दार्थयोः धर्माः, अपितु चित्तवृत्तेः परिचायकाः सन्ति । ग्रन्थकृन्मते रसोल्लाससमये चित्ते या द्रुति-दीप्ति-विकासात्मिकाः अवस्थाः जायन्ते, तासाम् आस्वादस्य मूलहेतवः गुणाः एव भवन्ति । अच्युतरायः पण्डितराजजगन्नाथस्य मतस्य खण्डनं कुर्वन् प्रतिपादयति यत् यदि रसः केवलं निर्मुक्ता चित्तवृत्तिः स्यात्, तर्हि गुणानां सत्ता निर्गुणे ब्रह्मण इव न सम्भवेत् । अतः "सविशेषे सोपाधिके च रसात्मके चित्ते गुणस्य सत्ता अवश्यमेव मन्तव्या" ।
PDF URL: View Article in PDF
