Author(s): Dr. G. Suresh
Abstract:
साहित्यशास्त्रं शैवागमश्च परस्परं निगूढतया सम्बद्धौ वर्तेते, विशेषतः काश्मीरशैवदर्शनस्य 'प्रत्यभिज्ञा' सिद्धान्तेन सह। आचार्याः अभिनवगुप्तपादाः ध्वन्यालोकलोचने अभिनवभारत्यां च एतन्मतं प्रस्थापितवन्तः यत् काव्यरसः साक्षात् 'शिवतत्त्वस्य' आनन्दस्वरूपः एव अस्ति। यथा शैवागमे आत्मा स्वशक्तिं विस्मृत्य पुनः प्रत्यभिज्ञया शिवत्वं प्राप्नोति, तथैव काव्यश्रवणेन सहृदयः लौकिकप्रपञ्चं विस्मृत्य 'विगलितवेद्यान्तर' इति अवस्थामासाद्य ब्रह्मानन्दसहोदरं रसानन्दं विन्दति। अतः साहित्यशास्त्रस्य 'रसध्वनिः' वस्तुतः शैवागमस्य 'चित्-शक्ति-विमर्श' सिद्धान्तस्यैव वाङ्मयी अभिव्यक्तिः अस्ति। साहित्यशास्त्र-शैवागमयोः बान्धव्यं सुनिश्चितं ज्ञायते इत्यनेन, उभयोरपि शास्त्रयोः मिथः संबन्धत्वं दरीदृश्यते। शैवागमे उत्सवसमये नृत्यप्रयोगः दृश्यते। तद्वत् साहित्येऽपि नाट्यनृत्यविषयाः प्रोक्तं भवति धनञ्जयाचार्यैः दशरूपके। अतः उभयत्रापि नृत्यसंबन्धविद्यमानत्वात् विषयोऽयं पत्रेऽस्मिन् प्रस्तूयते। काव्यं नाम रसभावालङ्कारपूर्णं जनमनोह्लादकं वाक्यकदम्बकम् इत्यशेषविपश्चिज्जनगणम-णिविदितमेव। काव्यं दृश्यश्रव्यभेदाभ्यां द्विधा भवति । काव्यमधिकृत्यार्वाचीनैरानन्दवर्धनाचार्य-भामह-दण्डि-राजानककुन्तक-मम्मटादिसङ्ख्यातीतैराचार्यप्रवरैः नानालङ्कारग्रन्थाः निरमायिषत। परन्तु काव्यशास्त्रमधिकृत्य त्रय एवाचार्याः विश्रुतिमापुः - व्यासमुनिर्नन्दिकेश्वरः भरतमुनिश्च। काव्यशास्त्रं न केवलं दृश्यश्रव्यकाव्यप्रमेयोपपादकं भवति। अपि तु तदुपयोगिनां रससङ्गीतकामशास्त्रप्रभृतीनां सौकुमार्यकलादीनाञ्च निरूपणाधिकृतं भवति।
PDF URL: View Article in PDF
