स्मृतिग्रन्थेषु ‘सम्भूयसमुत्थानम्’ इति व्यवहारस्य परिशीलनम्

Author(s): Vinayak Bhat

Abstract:

अस्मिन् शोधप्रबन्धे प्राचीनभारतीयधर्मशास्त्रेषु, विशेषतः महर्षिभिः प्रणीतेषु स्मृतिग्रन्थेषु प्रतिपादितस्य ‘सम्भूयसमुत्थानम्’ इति पारिभाषिक-व्यवहारपदस्य (वाणिज्यविधेः) सुविस्तृतं, वैज्ञानिकं, वैधानिकञ्च विवेचनं प्रस्तूयते। भारतीयपरम्परायां धर्म-अर्थ-काम-मोक्षा इति पुरुषार्थचतुष्टयस्य महती महिमा वर्णिता अस्ति। तत्र ‘अर्थः’ इति द्वितीयः पुरुषार्थः मानवजीवनस्य भौतिक-समृद्धेः सामाजिक-सन्तुलनस्य च आधारभूतः वर्तते। प्राचीनभारते आर्थिकव्यवस्थायाः सञ्चालनार्थं वाणिज्यस्य, कृषेः, पशुपालनस्य च महती आवश्यकता आसीत्, येषां समूहरूपं ‘वार्ता’ इति शब्देन व्यवह्रियते स्म। कालान्तरेण यदा वाणिज्यस्य स्वरूपं विस्तृतं सञ्जातं, तदा एकाकिना वणिजा बृहत्-वाणिज्यस्य सञ्चालनं सङ्कटपूर्णं दुःसाध्यञ्च अभवत्। एतादृश्यां स्थितौ अनेके वणिजः स्वमूलधनं, श्रमं, कौशलञ्च सम्भूय (मिलित्वा) वाणिज्यं कुर्वन्ति स्म। अस्य संयुक्त-वाणिज्यप्रक्रमस्य वैधानिकं नियन्त्रणम्, लाभांशस्य हानि-वहनस्य च व्यवस्थापनं ‘सम्भूयसमुत्थानम्’ इति नाम्ना स्मृतिग्रन्थेषु अष्टादशव्यवहारपदानाम् अन्तर्गततया अङ्गीकृतम्। अस्मिन् शोधपत्रीये विमर्शने मनु-याज्ञवल्क्य-नारद-बृहस्पति-प्रभृतिभिः प्रमुखैः स्मृतिकारैः, कौटिल्यादिभिः नीतिशास्त्रकारैश्च अस्य विषयस्य यत् गम्भीरं चिन्तनं कृतम्, तस्य विशदं मीमांसनं क्रियते। अत्र लाभांशस्य आनुपातिक-विभाजनम्, सहभागिनां वैधानिकदायित्वानि, प्रमादात् जातायाः हानेः प्रतिपूर्तिः, तथा च दैविक-राजकीय-विपत्तिषु दायित्वमुक्तिः इत्येतेषाम् अंशानां तत्तत्-स्मृतिश्लोकानां साहाय्येन गवेषणात्मिका समीक्षा अस्ति। आधुनिक-सङ्घटित-वाणिज्यस्य मूलसिद्धान्ताः प्राचीनभारते कियन्तः परिष्कृताः, तार्किकाः, न्यायपूर्णाश्च आसन् इति अत्र सप्रमाणं विविच्यते।

PDF URL: View Article in PDF