Author(s): Dr. Ramesh Malakar
Abstract:
धर्मस्य प्रभावेण मनुष्याणां दुर्व्यसनं दीनता दुर्भाग्यम् इत्यादिदोषाः दूरीभवन्ति। मनुष्यश्च स्वजीवनस्य लक्ष्यं प्राप्नुवन्ति। अतः धर्म एव परमगतिः इत्युक्तम् - धर्मो हि परमा गतिः1। धर्मादेव मनुष्येषु प्रतापस्य प्रभावस्य नीतेः शौर्यस्य शक्तेः औदार्यस्य तथा सद्गुणानां प्रादुर्भावः भवति। यस्य हृदयं पूर्णरूपेण धर्मेण आप्यायितं तस्य कृते संसारे न किमपि दुर्लभं तिष्ठति- न हि धर्माभिरक्तानां लोके किञ्चन दुर्लभम्2। धर्म एव अस्मान् पापेभ्यः अपसार्य पुण्यं प्रति नयति। धर्मस्य पालनेन जनाः व्यक्तेः समाजस्य राष्ट्रस्य तथा सम्पूर्णविश्वस्य उन्नतिं कर्तुं शक्नुवन्ति।
PDF URL: View Article in PDF
