Author(s): लीलाधर शर्मा, प्रो. हरेकृष्ण अगस्ती
Abstract:
वैदिकवाङ्मये सामवेदः 'गीतिषु सामाख्या' इति परिभाषया संगीतस्य आदिस्रोतः मन्यते। ऋग्वेदस्य ऋचाः यदा स्वरविशिष्टेभ्यः नियमैः युक्ताः भवन्ति, तदा ताः 'साम' इति संज्ञां लभन्ते। अस्य सामगानस्य मूलाधाराः सप्तस्वराः सन्ति, ये न केवलं ध्वनिविशेषाः, अपितु यज्ञीयप्रक्रियायां आध्यात्मिकचेतनायाः संवाहकाः अपि सन्ति। प्रस्तुतशोधपत्रे नारदीयशिक्षा, पुष्पसूत्रम्, तथा सामविधानब्राह्मणम् इत्यादीनां ग्रन्थानां आलोकें सामवेदस्य सप्तस्वराणां (क्रुष्ट, प्रथम, द्वितीय, तृतीय, चतुर्थ, मन्द्र, अतिस्वार) वैज्ञानिकं, स्वरगतात्मकं (Tonal) तथा हस्तचालनपरकम् (Gestural) अध्ययनं प्रस्तुतं क्रियते।
PDF URL: View Article in PDF
