नैयायिकमीमांसकमतनिराकरणपूर्वकं वैयाकरणमतानुसारं शाब्दबोधवर्णनम् :

Author(s): सीतांशुरंजनदाशः

Abstract:

शब्दजन्यबोधः स च वाक्यस्य-पदार्थानां तत्तसम्बन्धमाध्यमेन परस्परान्वयपूर्वकं महावाक्यार्थबोधा-ज्जायतो प्रायशो वाक्यस्य सुबन्ततिङन्तसमुदायमूलकत्वेन तत्तद्वाक्यघटक तत्तसुबन्ततिङन्तपदार्थान्व-यमाध्यमेन जायमानो महावाक्यार्थ एव शाब्दबोध इति नाम्ना पदवाक्यप्रमाणदर्शनेषु व्यपदिश्यते। एतादृशशाब्दबोधविषयकज्ञानसम्पादनाय तत्तत्पद्वाक्यघटकपदपदार्थज्ञानमप्यत्यावश्यकं भवति। तत्त-द्वाक्यघटकतत्तत्पदार्थेभ्यः फलव्यापायोधर्मो, सङ्ख्याकालो इत्येते पदार्थांशशाब्दबोधजननायोपकुर्व-न्तीयत् पदवाक्यप्रमाण विना कस्यापि विप्रतिपत्तिः । परन्तु तव कस्यार्यस्य को वाचकशशब्दः इत्यसैव सर्वे नव्यनैयायिकमीमांसकादयो विवदन्ते । तद्यथा धातोः फलव्यापारयोः पृथक्शक्तिः स्वीकर्तव्या । तथाच फलव्यापारवुभौ धात्वर्थौ भवतः । उक्तञ्च ' वैयाकरणभूषणसरे- “फलव्यापारयोर्धातुः” इति । कर्त्ताकर्मसंख्याकालाः तिङर्थाः । तव फलस्थानुकूलतसम्बन्धेन धात्वर्थ व्यापारेऽन्वयः । आख्यातार्थस्य कर्तुर्धात्वर्थव्यापारेऽन्वयः । आख्यातार्थस्य कर्मणो धात्वर्यफलेऽन्वयः । आख्यातार्थसङ्ख्यायाः आख्या-तार्थकर्तृकर्मणोरभेदेनान्वयः । आख्यातार्थकालस्य धात्वर्थव्यापारेऽन्वयः । तथाच “चौत्रस्तण्डुलं पचति" इत्यादिकर्त्तृलकारस्थले एकत्वविशिष्टचैत्रस्तणडुलकर्मकाविक्लित्यनुकूलो वर्तमानकालावच्छिन्नो व्यापार इति वैयाकरणमते शाब्दबौधः फलति। देवदत्तादिपदप्रयोगे “देवत्तो ग्रामं गच्छति ” इत्यादौ देवदत्ताभिन्नाकर्त्तृकः एकत्वविशिष्टो ग्रामकर्मकः पूर्वदेशविभागानुकूलः अन्यदेशसंयोगानुकूलो व्यापार : इति शाब्दबोधः फलति । घटो नश्यति इत्यत्र कर्तरि लकारस्थले घटाभिन्नाकर्त्तृकः एकत्वसङ्ख्याविशिष्टः नाशानुकूलव्यापारः इति शब्दबोधः फलति । देवदत्त जानाति, देवदत्तः इच्छति इत्यादौ एकत्व-सङ्ख्याविशिष्टो देवदत्राभिन्नाभ्रयको ज्ञानेच्छाद्यनुकूलो वर्तमानकालावाच्छिन्नो व्यापार : इति वैयाक-रणमते शाब्दबोधः फलति । स्पष्टञ्चेदत्कौण्डभट्टेन' वैयाकरणभूषणसारे । प्राचीनवैयाकरणमतानुसारं कर्त्तरि लकारे धात्वाख्यातार्थविषयकशाब्दबोधवर्णनम् । एतावता प्रबन्धेन प्राचीनवैयाकरणमतानुसारं धातोः फलव्यापारयोरर्थयोः पृथगेव शक्तिस्स्वीकार्या। तन्मते चैत्रः तण्डुलं पचतीत्यादौ फलस्य विक्लित्यादेरनुकूलतासम्बन्धेन पार्थक्येनैवात्र व्यापारे अन्वयो भवति। तन्मता-नुसारं धातोः पार्यक्येन फलव्यापारौ द्वावर्थौ भवतः । चैत्रस्तण्डलं पचति इत्यादौ कर्तरि लकारे धातोः फलव्यापारोभयोरर्थकत्वेऽपि एकत्व सङ्ख्यावित्श्चैत्राभिन्नकर्तृको विक्लित्यनुकूलो वर्तमानकालाव-च्छिन्नव्यापार इत्याकारको धात्वर्थव्यापारविशेष्यकशाब्दबीधो जायते ।

PDF URL: View Article in PDF