Author(s): श्रीमती मञ्जुलतासाहुः
Abstract:
वेदान्तदर्शनस्य मूलाधारभूतानि ग्रन्थत्रयं उपनिषद्–गीता–ब्रह्मसूत्राणि सभाष्याणि इति प्रस्थानत्रयम् इत्युच्यते। एतेषु ग्रन्थेषु परब्रह्मणः स्वरूपं, जीवब्रह्मणोः सम्बन्धः, मोक्षोपायश्च अत्यन्तं गाम्भीर्येण प्रतिपादिताः सन्ति। अद्वैतवेदान्तपरम्परायां प्रस्थानत्रयस्य अध्ययनं परमावश्यकं मन्यते, किन्तु सर्वे जनाः तेषां गूढार्थं अवगन्तुं समर्थाः न भवन्ति। कालपरिवर्तनेन मनुष्याणां अध्ययनशीलता, धारणाशक्ति तथा गूढतत्त्वग्राहकबुद्धिश्च क्षीयते इति विचार्य, परमकारुणिकैः मुनिभिः वेदान्ततत्त्वावबोधनार्थं प्रकरणग्रन्थाः, स्तोत्रग्रन्थाः, शतकग्रन्थाश्च विरचिताः। एतेषु ग्रन्थेषु लिङ्गभङ्गमुक्तिशतकम् नाम ग्रन्थः उपनिषद्ब्रह्मेन्द्रयोगिभिः विरचितः विशेषमहत्त्वं वहति। अस्मिन् शतके अभिनवशैल्या औपनिषदमद्वैततत्त्वं सुबोधतया प्रतिपादितम् अस्ति। अत्र महावाक्यार्थस्य विवेचनं विशेषरूपेण दृश्यते। अस्य शोधपत्रस्य मुख्यविषयः “लिङ्गभङ्गमुक्तिशतके महावाक्यार्थविमर्शः” इति।
PDF URL: View Article in PDF
