कुवलयानन्ददिशा ललितालङ्कारविमर्शः

Author(s): एस्. विष्णुप्रिया

Abstract:

साहित्यशास्त्रस्य अलङ्कारग्रन्थेषु अनेके अद्वितीयाः विषयाः आलोडिताः। तत्र रसः यद्यपि प्रथमं स्थानमावहति, तथापि गुणः रीतिः, वृत्तिः इत्यन्येऽपि विषयाः समुल्लसन्ति। अत एव सङ्क्षेपेण काव्यप्रमेयविषयाः प्रतापरुद्रीये इत्थं प्रतिपादिताः। रसप्रधानाः शब्दार्थाः गुणालङ्कारवृत्तयः। रीतयश्चेयती शास्त्रप्रमेयं काव्यपद्धतिः॥ अत्र इदमस्माभिः परिलक्षयितुं शक्यते यत् अलङ्कारोऽपि साहित्यशास्त्रप्रमेयेषु अन्यतमो वर्तते। काव्यपुरुषस्य भूषणस्थाने अलङ्काराः विराजन्ते, यथा शब्दार्थौ मूर्त्तिराख्यातौ जीवितं व्यङ्ग्यवैभवम्। हारादिवदलङ्कारास्तत्र स्युरुपमादयः॥ अयं च अलङ्कारः शब्दालङ्कारः अर्थालङ्कारः इति द्विविधो भाति। तत्र अर्थालङ्काराः उपमादयः प्रसिद्धाः एव। एतान् अलङ्कारविशेषान् अप्पय्यदीक्षितेन्द्राः चन्द्रालोकग्रन्थाधारेण कुवलयानन्दः इति स्वीये ग्रन्थे बालानां सरलव्युत्पत्त्यर्थं विस्तारयामासुः। तदेव आहुः

PDF URL: View Article in PDF