दर्शनेषु उपाधिविचारः

Author(s): DR. PRABIR DHALL

Abstract:

भारतीयदर्शनपरम्परा विश्वे अद्वितीया इति सर्वविदितम्। अस्याः परम्परायाः मूलाधारः संस्कृतभाषा एव, या न केवलं वाङ्मयस्य वहिका, अपि तु ज्ञानविज्ञानयोः अमूल्यनिधिः अपि अस्ति। दर्शनशास्त्रेषु वस्तुतत्त्वस्य सूक्ष्मविश्लेषणं क्रियते, यत्र प्रत्यक्षानुमानादिप्रमाणैः सत्यस्य अनुसन्धानं भवति। एतेषु दर्शनेषु न्याय-वैशेषिक-सांख्य-योग-वेदान्तादिषु ‘उपाधि’ इति संकल्पना विशेषतया महत्त्वपूर्णा दृश्यते। ‘उपाधि’ शब्दः तात्त्विकदृष्ट्या अत्यन्तं गूढार्थयुक्तः अस्ति, यः वस्तुनः यथार्थस्वरूपस्य बोधे बाधकत्वेन वा सीमांकनकारणेन वा कार्यं करोति। विशेषतः अनुमानप्रक्रियायां उपाधेः विचारः अनिवार्यः, यतः सः हेतोः यथार्थव्याप्तिं निर्धारयति। उपाधियुक्तहेतुः व्यभिचारदोषं जनयति, अतः तर्कशास्त्रे अस्य निरसनं अत्यावश्यकं मन्यते। न्यायवैशेषिकदर्शने उपाधिः साध्यव्यापकत्वे सति साधनाव्यापकत्वेन परिभाषिता, यदा तु वेदान्तदर्शने सा अविद्यारूपेण ब्रह्मणि आरोपकारणत्वेन निरूप्यते। एतत् भेदद्वयं दर्शयति यत् उपाधेः स्वरूपं विभिन्नदर्शनेषु भिन्नरीत्या अवगम्यते। अतः अस्मिन् लेखे विभिन्नदर्शनेषु उपाधेः स्वरूपं, लक्षणं, प्रकाराः तथा तस्य तात्त्विकप्रभावः इत्यादीनां सम्यक् विवेचनं क्रियते। एषः विषयः केवलं तर्कशास्त्रपरिधौ न सीमितः, अपि तु सम्पूर्णभारतीयदर्शनस्य गहनतत्त्वबोधाय अत्यन्तोपयोगी इति।

PDF URL: View Article in PDF