सांख्यदर्शने पुरुषस्वरूपविमर्शः

Author(s): विश्वजित् दिण्डा

Abstract:

सांख्यसिद्धान्तानुसारं सृष्ट्यर्थं प्रकृत्या सह पुरुषस्य संयोगऽपेक्षते पुरुषस्य भोगापवर्गरूपार्थसाधनाय गुणेषु क्षोभो जायते। सांख्यप्रकृतिव्यतिरिक्तं पुरुषोऽन्यदेकं मूलतत्त्वम्। पुरुषो न प्रकृतिर्नापि विकृतिः। ईश्वरकृष्णेन पुरुषास्तित्वसिद्धये सप्तदशतमकारिकायां पञ्चयुक्तयः उत्थापिताः। यथा- संघातपरार्थत्वात् त्रिगुणादिविपर्यादधिष्ठानात्। पुरुषोऽस्ति भोक्तभावात् कैवल्यार्थप्रवृत्तेश्च।। तत्र प्रथमयुक्तिः भवति संघातपरार्थत्वात्। अत्र संघातपदेन पुरुषं विहाय चतुर्विंशतितत्त्वानां ग्रहणं भवति। एतानि संघाततत्त्वानि कस्यचित् असंघाततत्त्वस्य उपभोगार्थमुपयुज्यन्ते। यथा पर्यङ्कारार्थगूहादयः एते परार्था एव। किन्तु पुरुषोऽस्ति यः खलु पर्यङ्के शेते। रथेन गच्छति, गृहे च निवसति। द्वितीययुक्तिः भवति त्रिगुणादिविपर्ययात्। गुणत्रयं सत्त्वरजस्तमांसि संघातेषु एव तिष्ठन्ति। अतः त्रिगुणादिविपर्ययात् अर्थात् गुणत्रयस्य अभावात् पुरुषोऽस्ति इति अनुमीयते। तृतीययुक्तिः भवति अधिष्ठानात्। जडपदार्थाः चेतनेन व्यधिष्ठितः सन्तः कार्यक्षमाः भवन्ति। यथा- जडपदार्थः रथः सारथिं विना न चलति तथैव शरीरेन्द्रियादयः जडपदार्थाः अपि अधिष्ठातारं विना न प्रवर्त्तन्ते। अतः अत्र अधिष्ठाता पुरुषः अस्ति इत्यनुमीयते। चतुर्थयुक्तिः भवति भोक्तृभावात् न बुध्यादीनि तत्त्वानि सुखदुःखेन भोग्यानि भवन्ति। भोक्तारं विना भोग्यपदार्थानां भोगः न भवति। एवञ्च द्रष्टारं विना दृश्यपदार्थानां दर्शनं न भवति। अतः भोक्तृत्वेन पुरुषः सिद्ध्यति। पञ्चमयुक्तिः तावत् कैवल्यार्थं प्रवृत्तेश्च। कैवल्यार्थं मोक्षार्थं वा केवलं पुरुषः प्रवर्त्तते नान्यः। अतः कैवल्यार्थं प्रवृत्तेश्च पुरुषः अस्तीति अनुमीयते।

PDF URL: View Article in PDF